________________
ईश्वरसद्भावसमर्थनम्
[नापीदमनुमानं प्रतितर्कपराहतम् ]
नामप्रयोजको हेतुः, यथा परमाणूनामनित्यत्वे सति मूर्तत्वमभिधास्यते । न हि मूर्तत्वप्रयुक्तमनित्यत्वम् । इह तु कार्यत्वप्रयुक्तमेव कर्तृकत्वं तत्र तत्रोपलब्धमिति । अत एवानुमान - विरोधस्येष्ट्रविघातकृतश्च न कश्चिदिहावसरः । प्रयोजके हेतौ प्रयुक्ते तथाविधपांसुप्रक्षेपप्रयोगानवकाशात्। तस्मात्परोदीरिता-. शेषदोषविकल कार्यानुमानमहिम्ना नूनमीश्वरः कल्पनीयः ॥
502
सकललोकसाक्षिक'मपि चानुमान' प्रामाण्यमपीक्षणीयम् । अनुमानप्रामाण्यरक्षणे च कृत एव परिकरबन्धः प्रागिति (२ आह्निके) सिद्ध एवेश्वरः ॥
[ ईश्वरसाधकानुमानान्तरे ]
अन्यदपि तदनुमानमन्यैरुक्तम् । महाभूतादि व्यक्तं चेतनाधिष्ठितं सत् सुखदुःखे जनयति, रूपादिमत्त्वात्; सूर्यादिवत् । तथा, पृथिव्यादीनि भूतानि चेतनाधिष्ठितानि सन्ति धारणादिक्रियां कुर्वन्ति युग्यादिवदिति । अत्रापि दोषाः पूर्ववदेव परिहर्तव्याः ||
[ न्यायम
[आगमादेव जगत्स्रष्टु इतरचेतन वैलक्षण्यसिद्धिः ]
यत्पुनरवादि (पु. 486 ) - - ' कर्तृसामान्य सिद्धौ वा विशेषावगतिः कुतः ?' इति
तत्र केचिदागमाद्विशेषप्रतिपत्तिमाहुः 'विश्वतश्चक्षुरुत विश्वतो मुख विश्वतो बहुत विश्वतस्पात् | संवाहुभ्यां धमति संपतत्रैः द्यावाभूमी जनयन् देव एकः' (ते. ना - ३-२ ) इति । तथा 'अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति सर्व न हि तस्य वेत्ता तमाहुरग्रयं पुरुषं महान्तम्' (श्वे-३-१९) इति श्रुतौ पठ्यते । ततः सर्वस्य कर्ता सर्वज्ञ ईश्वरो ज्ञाप्यते ॥
नहीति । किन्तु हेत्वधीनत्वप्रयुक्तमिति शेषः । कल्पनीयः - अनुमेयः ॥
1
मनुमान - ख.
2 मति बाहुभ्यां - ख