________________
आह्निकम् ३] ईश्वरानुमाने बाधादिनिरास:
501 [विशेषविरुद्धत्वस्य हेत्वाभासत्वाभावः] यदपि विशेषविरुद्धत्वमस्य प्रतिपादितं (पु. 486)—तदप्य.. समीक्षिताभिधानम् - विशेषविरुद्धस्य हेत्वाभासस्याभावात् (११ आह्निके)। अभ्युपगमे वा सर्वानुमानोच्छेदप्रसङ्गात्। श्रोत्राद्यनुमानेऽपि यथोदाहृते शक्यमेवमभिधातुम्। यादृगेव लवनक्रियायां दात्रादिकरण काठिन्यादिधर्मकमवगतं तादृगेव श्रोत्रादि स्यात्। तद्विलक्षणकरणसाध्यतायां तु साध्यविकलो दृष्टान्तः, छेदनादिक्रियाणामतीन्द्रियकरणकार्यत्वादर्शनादिति ॥
. यावद्विरोधमेव विशेषाणामनुगम:] अथ क्रियामात्रं करणमात्रेण व्याप्तमवगतमिति तावन्मात्रमनुमापयति, तदिहापि सन्निवेशमात्रमधिष्ठातृमात्रण व्याप्तमुपलब्धमिति तावन्मात्रमेवानुमापयतु। विशेषाणां तु न तल्लिङ्गं, अस्ति यत्र' बाधकम् । अनित्यः शब्दः कृतकत्वादित्ययमपि श्रावणत्वादि शब्दस्य विशेषजातं बाधत एव। धूमोऽपि पर्वताग्निविशेषान् कांश्चिन्महानसाग्नावदृष्टानपहन्त्येव। तस्माद्यथानिर्दिष्टसाध्यविपर्ययसाधनमेव विरुद्धो हेतुः, न हि विशेषविपर्ययावहः। प्रकृतहेतुश्च' साध्यविपर्ययस्याकर्तृपूर्वकत्वस्य न साधकः, अश्वोऽयं विषाणित्वादितिवत्। तस्मात् न विरुद्धः॥
[भूभूधरादिसकर्तृकत्वानुमानस्य बाधाभावः] नापि कालात्ययापदिष्टः, प्रत्यक्षागमयोर्बाधकयोरदर्शनात् । प्रत्युतागममनुग्राहकमिहोदाहरिष्यामः॥
[भूभूधरादिसकर्तृकत्वानुमाने सत्प्रतिपक्षत्वाभावः] नापि सत्प्रतिपक्षोऽयं हेतुः, संशयबीजस्य विशेषाग्रहणादेरिह हेतुत्वेनानुपादानात् ॥
. तेजस्वित्वादिविशेषाणां वह्नया समं भानात्-अस्ति यत्र बाधकमिति। श्रावणत्वादीति । न हि दृष्टान्ते घटादौ श्रावणत्वादिकमस्ति। पर्वताग्निविशेषान्–अन्ततः पर्वतीयत्वादीन्। यथानिर्दिष्ट-वह्नित्वावच्छिन्नम् ।।
1यन-ख.
2 प्रकृतश्च-क.