________________
500 ईश्वर सद्भावसमर्थनम
[न्यायमञ्जरी नन्वेवं शब्दाद्युपलब्धयोऽपि वस्तुस्थित्या विपक्षा एव; तासामपि पक्ष इति नामकरणमेव स्यात्-न-तासां 'करणाभाव'निश्चयानुत्पादान विपक्षत्वम् ॥
पर्वतादावपि कर्बभावनिश्चयानुत्पादान विपक्षत्वम् ॥
तेषु कर्ता नोपलभ्यत इति चेत; शब्दाधुपलब्धिक मपि नोपलभ्यत एव॥
___ 'करण'मदृश्यमानत्वादेव नोपलभ्यते, न नास्तित्वात् इति चेत् ; कर्ताऽप्यदृश्यत्वादेव नोपलभ्यते, न नास्तित्वात् ।।
अनुमानात् करणमुपलभ्यते, तद्व्यतिरेकेण क्रियाऽनुपपत्तेरिति चेत् ; कर्ताऽप्यनुमानादुपलप्स्यते, कर्तारमन्तरेण कार्यानुपपत्तेः ॥
[पृथ्व्यादेः सकर्तृकत्वानुमानं धूमावढ्यनुमानतुल्यम् ] तेनानुमानगम्यत्वान्न कर्तुर्नास्तिताग्रहः। तभावाद्विपक्षत्वं क्षित्यादेरपि दुर्भणम् ॥ १६२ ॥ लिङ्गात्पूर्व तु सन्देहो दहनेऽपि न वार्यते । तथा सति प्रपद्येत धूमोऽप्यननुमानताम् ॥ १६३ ॥ अथास्य लिङ्गाभासत्वं क्षित्यादौ कत्रदर्शनात्।। धूमेऽपि लिङ्गाभासत्वं तत्र देशेऽग्नयदर्शनात् ।। १६४ ॥ ननु तं देशमासाद्य गृह्यते धूमलाञ्छनः। . अनयैव धिया, साधो! 'वर्धस्व शरदां शतम् ॥ १६५ ॥ यत्पश्चाद्दर्शनं तेन किं लिङ्गस्य प्रमाणता ? अनर्थित्वाददृष्टे वा कृशानौ किं करिष्यसि ? ॥ १६६ ॥ तस्मात्सर्वथा नायमनैकान्तिको हेतुः ॥
तयतिरेकेणकरणमन्तरा। क्रिया-उपलब्धिरूपा ॥
लिङ्गं—अनुमानम् । तत्र देशे-दूरात् धूमदर्शनदेशे। अनयैवेति । कार्य पश्यन् , तत्कारणमनुमाय, कारणदेशं गतः कारणमुपलभते नरः। एवं जगत्कारणभूतं वस्तु तथैव तद्देशे द्रष्टुं अनवरतं यतस्व । प्रकृतमनुसरतियदिति। पश्चाद्वह्निदर्शनेनैव पूर्वमुत्पन्नमनुमानं प्रमाणमिति न हि- कस्यापि सम्मतमित्यर्थः। अत्रापि हेतुमाह- अनर्थित्वादिति। वढ्यनपेक्षत्वादित्यर्थः ।
करणभाव-ख.
कारण-ख.
चरस्व-ख,