________________
आह्निकम् ३] ईश्वरानुमाननिरासेऽतीन्द्रियवस्तुसाधनं दुश्शकम् 499 व्याप्तिर्हि गृह्यमाणा सकलसपक्षविपक्षकोडीकारेण गृह्यते। इत्थं च तस्यां गृह्यमाणायामेव 'यद्यत्सन्निवेशविशिष्टं, तत्तद्बुद्धिमत्कर्तृकं' इत्यस्मिन्नेवावसरे सन्निवेशवन्तोऽपि कर्तशून्यतया शैलादयश्चेतसि स्फुरन्ति । यथा कृतकत्वेन वह्नेरनुष्णताऽनुमाने 'यद्यत् कृतकं तत्तदनुष्णम् ' इति व्याप्तिपरिच्छेदवेलायामेव वह्नि रुष्णोऽपि' कृतक इति हृदयपथमवतरति । तद्वर्ज तु व्याप्ती गृह्यमाणायां तो हेतोः षण्डादिव पुत्रजननमघटमानमेव साध्यानुमानमिति ॥
. व्याप्तिग्रहणे अधिकरणविशेषभानानपेक्षणादुक्ताक्षेपनिरासः] . तदेतदनुपपन्नम् - विशेषोल्लेखरहितसामान्यमात्रप्रतिष्ठितस्य व्याप्तिपरिच्छेदस्यानुमानलक्षणे निर्णीतत्वात् (पु. 319)। अग्न्यनुष्णताऽनुमाने हि न व्याप्तिग्रहणप्रतीघातादप्रामाण्यम् , अपि तु प्रत्यक्षविरोधादित्युक्तमेतत् ॥ [पृथिव्यादीनां सकर्तृकत्वं यदि नानुमातुं शक्य, तर्हि इन्द्रियाणामप्यसिद्धिः] ___ अपि चायं पृथिव्यादौ कत्रनुमाननिरासप्रकारः, 'शब्दाद्युपलब्धयः, करणपूर्विकाः, क्रियात्वात् , छिदिक्रियावत्' इत्यत्र श्रोत्रादिकरणानुमानेऽपि समानः। प्रतिबन्धावधारणवेलायामेव करणशून्यानां शब्दाधुपलब्धिक्रियाणां अवधारणात् ताभिरेव व्यभिचारात् । पक्षेण च पृथिव्यादिनाव्यभिचारचोदनमत्यन्तमलौकिकम् ॥
कर्बनुमान करणानुमानतुल्यमेव] ननु ! वस्तुस्थित्या पर्वतादयोऽपि विपक्षा एव; त्वया तु तेषां पक्ष इति नाम कृतम् । न च त्वदिच्छया वस्तुस्थितिविपरिवर्तते ॥
विपक्षेति--व्यतिरेकसहचारग्रहणाय ! इदमपि अन्वयदाायेत्युक्तम् ॥
अपि विति । वह्नौ औष्ण्यस्य पूर्व प्रत्यक्षसिद्धत्वादेव हि व्याप्तिग्रहवेलायां स्वयं तस्य वर्जनम्, प्रकृते तु न तथा भूधरादौ अकर्तृकत्वं पूर्व सिद्धम् ॥
1 रुष्णोऽ-ख.
तत्र यति-ख.
32*