________________
498 ईश्वरसद्भावसमर्थनम्
न्यायमञ्जरी __ सन्दिग्धे हि न्यायः प्रवर्तते, नानुपलब्धे न निर्णीत इत्युक्तमेतत् । सन्दिह्यमान एव चार्थः पक्ष उच्यते। किञ्चित्कालं तस्य पक्षत्वं, यावन्निर्णयो नोत्पन्नः। तदुत्पादे तु नूनं सपक्षविपक्षयोरन्यतरत्रानुप्रवेक्ष्यत्यसौ। अतश्च पक्षावस्थायां तेन व्यभिचारोद्भावनमसमीचीनम् ॥
व्यभिचारसंशयस्यादोषत्वम् ] ननु ! निश्चितविपक्षवृत्तिरिव सन्दिग्धविपक्षवृत्तिरपि न हेतु. रेव । तदेवं वीरुधादिषु सन्दिग्धेऽपि कर्तरि सनिवेशस्य दर्शनादहेतुत्वम-नैतत्सारम्-सद सत्पावकतया पर्वते सन्दिग्धे विपक्षे वर्तमानस्य धूमस्याहेतुत्वप्रसङ्गात् । सर्व एव च साध्यांशसंशयाद्विपक्षा एव जाता इति पक्षवृत्तयो हेतव इदानीं विपक्षगामिनो भवेयुरित्यनुमानोच्छेदः॥
[सपक्षे व्याप्तिनिश्चय एव अनुमानाङ्गम् ] अथ पक्षीकृतेऽपि धर्मिणि सदसत्साध्यधर्मतया 'सन्दिग्धेऽपि वर्तमानो धूमादिः अन्यत्र व्याप्तिनिश्चयात् गमक इष्यते, तर्हि सदसत्कर्तृकतया सन्दिग्धेऽपि वसुन्धरावनस्पत्यादौ वर्तमान कार्यत्वमन्यत्र व्याप्तिनिश्चयात् गमकमिष्यताम् । विशेषो वा वक्तव्यः ॥
[भूधरादीनां अकर्तृकत्वं न्याप्तिग्रहणवेलायामेव सिद्धमित्याक्षेपः]
अन्ये मन्यन्ते-किमकृष्टजातस्थावरादिव्यभिचारस्थानान्वेषणेन, पृथिव्यादिभिरेवात्र व्यभिचारः, अस्य व्याप्तिग्रहणस्य प्रतिघातात् ।
तथापि व्यवहारकाले वादिप्रतिवादिविप्रतिपत्तिनिबन्धनः पक्षव्यव्यवहारोऽपि वस्तुतोऽस्त्येव। एतदेवोपपादयत्यनन्तरवाक्यैः ॥
सन्दिग्धे विपक्षे-सन्दिग्धविपक्षरूपे पर्वते । सर्व इति। सन्दिग्धे हि न्यायः प्रवर्तत इत्यनुपदमुक्तम् ॥
अन्यत्र-महानसादौ । अन्यत्र---घटादौ। विशेषः-उक्तानुमानयो: वैलक्षण्यम् ॥
सन्दिग्धे-ख.