________________
आह्निकम् ३] तृणादीनामपीश्वरसृत्वसमर्थनम्
197 चोद्यमाने वेधसाऽपि विपक्षः पक्षीकर्तुं शक्यः, वादीच्छया वस्तुव्यवस्थाया अभावात् । इह तु स्थावरादौ कर्बभावनिश्चयो नास्तीत्युक्तम् ॥
[प्रसङ्गात् सपक्षविपक्षातिरिक्तस्य पक्षस्यावश्यकत्वकथनम् ] ननु ! स्थावरेषु पक्षीकृतेष्वपि व्यभिचारो न निवर्तत एव । न हि 'सपक्षविपक्ष व्यतिरेकेण तात्त्विकः पक्षो नाम कश्चिदस्ति, वस्तुनो द्वैरूप्यानुपपत्तेः। वस्तुस्थित्या सकर्तृकाश्चेद्वनस्पतिप्रभृतयः सपक्षा एव ते। 'नो चेत्तर्हि विपक्षा एव । न राश्यन्तरं समस्तीतिउच्यते--पक्षाभावे सपक्षविपक्षवाचोयुक्तिरेव तावत्किमपेक्षा ? पक्षानुकूलो हि सपक्ष उच्यते, तत्प्रतिकूलश्च विपक्ष इति ॥
. . [पक्षसपक्षविपक्षाणां स्वरूपम् ] यद्येवं, वक्तव्यं तर्हि कोऽयं पक्षो नामेतिसाध्यधर्मान्वितत्वेन द्वाभ्यामप्यवधारितः। सपक्षः, तदभावेन निश्चितस्य विपक्षता ॥ १५९ ॥ विमतो यत्र तु तयोः तं पक्षं संप्रचक्ष्महे । वस्तुनो यात्मकत्वं तु नानुमन्यामहे वयम् ॥ १६० ॥ वादिबुद्धयनुसारेण स्थितिः पक्षस्य यद्यपि ।
तथाऽपि व्यवहारोऽस्ति वस्तुतस्तन्निबन्धनः ॥ १६१ ॥ पक्षीकृतेषु-पक्षत्वेनाभिमतेविति भावः। न हीत्यादि। सपक्षश्व निश्चितसाध्यवान् । तृणादिषु अकर्तृकत्ववत् सकर्तृकत्वमपि न निश्चितम् । मतश्च तेषां सपक्षत्वासंभवे, तृतीयराश्यभावात् विपक्षवं सिद्धमेवेति व्यभिचार: वर्तत एवेत्यर्थः॥
द्वाभ्यां-वादिप्रतिवादिभ्याम् । ननु वस्तुनोऽध्यात्मकत्वात् , 'विमतः पक्षः' इत्युक्ते साध्यवत्वेन स वादिनो निश्चित इति सपक्ष एव। प्रतिवादिनश्च साध्याभाववत्त्वेनैव निश्चितत्वात् विपक्ष एव। ततश्च पक्षः कुत्रावशिष्यते इति चेत् तत्राह - वादीत्यादि। यद्यपि वाद्युक्तमेवान्ततः पर्यवस्यति,
वस्तुन-ख.
1 सपक्ष-क. 'न-ख. NYAYAMANJARI