________________
496 ईश्वरसद्भावसमर्थनम्
[न्यायमञ्जरी [योग्यानुपलब्ध्यभावात् तृणादीनां सकर्तृकत्वाभावः न सिध्यति]
उच्यते-स्थावराणा'मुत्पत्तिकाल'प्रत्यक्षत्वेऽपि कर्तुरदृश्यत्वमेव, अशरीरत्वनिश्चयात् । 'अशरीरस्य तर्हि तदुत्पत्तावव्याप्रियमाणत्वात् कर्तृत्वमपि कथमिति चेत् ; एतदग्रतो निणष्यते (पु. 507)। अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः नाकृष्टजातवनस्पतीनामकर्तृकत्वमिति 'न विपक्षता॥
[दृष्टकारणैरेव तृणाद्युत्पत्त्यसंभवः] यत्तुक्तं परिदृश्यमानक्षितिसलिलादिकारणकार्यत्वात् स्थावराणां किमदृश्यमानकर्तृकल्पनयेति--तदपेशलम् -परलोकवादिभिरदृश्यमानानां कर्मणामपि कारणत्वाभ्युपगमात् । बार्हस्पत्यानां तु तत्समर्थनमेव समाधिः ॥
[कर्मणामधिष्ठातृतयेश्वरसिद्धिः] अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटत इति कर्मणामदृश्यमानानामपि कारणत्वं कल्प्यते तत्र ; यद्येवमचेतनेभ्यः कारकेभ्यश्चतनानाधिष्ठितेभ्यः कार्योत्पादानुपपत्तः कर्ताऽपि चेतनस्तेषामधिष्ठाता कल्प्यताम् । तस्मात् स्थावराणामकर्तृकत्वाभावात् न विपक्षतेति न तैर्व्यभिचारः ॥
[तृणादीनां पक्षत्वाङ्गीकारे नानुमानोच्छेदः] । यदप्युक्तम्-येन येन व्यभिचार उद्भाव्यते, स चेत्पक्षेऽन्तवियिष्यते, क इदानीमनुमानस्य नियम इति एतदपि न साधुयदि हि भवान् निश्चिते विपक्षे वृत्तिमुपदर्शयेत् कस्तं पक्षेऽन्तर्भावयेत् । न हि विप्रत्वे पुंस्त्वस्य, नित्यतायां वा प्रमेयत्वस्य व्यभिचारे इत्युक्ते अबिप्रे, अघटे वा व्यभिचारापादने कृते, यदि तयोरपि पक्षत्वमुच्येत तद। कः समाधिरिति भावः ॥
तत्समर्थन - परलोकसमर्थनम्। इदं च ७ आह्नि के स्पष्टीभविष्यति ॥ तत्र-जगत्सृष्टौ। कारकेभ्यः-तादृशकर्मभ्यः ॥
1मुत्पत्ति-ख.
शरीरस्य-क.
3 विपक्षता-ख.