SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ३]] ईश्वरानुमानस्य निर्दुष्टत्वम् 495 [धूमत्वादिवत् सन्निवेशत्वसामान्यमप्यस्त्येव] ननु ! तत्र धूमो धूम इत्यनुवृत्तविकल्पबलेन कल्पितमपोहस्वभावं. सामान्यमभ्युपगतम्-इहापि सन्निवेशविकल्पानुवृत्तेः 'त्वत्प्रक'ल्पितमपोहरूपमेव सामान्य मिष्यताम् ! [गोपुरादिषु घटदृष्टान्तेन सकर्तृकत्वसाधकसन्निवेशत्वं सर्वसम्मतम् ] अपिच, सकर्तृकत्वाभिमतेष्वपि संस्थानेषु न सर्वात्मना तुल्यत्वं प्रतीयते। न हि घटसंस्थानं चतुश्शालसंस्थानं च सुसमिति । संस्थानसामान्य तु पर्वतादावपि विद्यत एवेति सर्वथा यादृगित्यवाचको ग्रन्थः॥ [तृणादिकमपि सकर्तृकमेव] यदपि व्यभिचारोद्भावनं अकृष्टजातैः स्थावरादिभिरकारि (पु. 485) तदपि न चारु-तेषां पक्षीकृतत्वात् । पक्षेण च व्यभिचारचोदनायां सर्वानुमानोच्छेदप्रसङ्गः ॥ . [तृणादीनां सकर्तृकत्वं अनुपलब्धिहतमित्याक्षेपः] ननु च पृथिव्यादेरुत्पत्तिकालस्य परोक्षत्वात् कर्ता न दृश्यत इति (पु. 485) तदनुपलब्ध्या तदसत्त्वनिश्चयानुपपत्तेः कामं संशयोऽस्तु ! वनस्पतिप्रभृतीनां तु प्रसवकाल मद्यत्वेन वयमेवप्रश्यामः। न च यत्नतोऽप्यन्वेषमाणाः कर्तारमेषामुपलभामहे । तस्मादसौ दृश्यानुपलब्धेनास्त्येवेत्यवगच्छामः ॥ _ तृणादीनां पक्षकोटिप्रवेशनमप्ययुक्तम् ] अपि च येन येन वयं व्यभिचारमुद्भावयिष्यामः तं तं चेत्पक्षी. करिष्यति भवान् सुतरामनुमानोच्छेदः, सव्यभिचाराणामप्येवमनुमानत्वानपायात् ॥ असौ-तृणादिकर्ता। दृश्यानुपलब्धेः-योग्यानुपब्धेः॥ सव्यभिचाराणां-अयं विप्रः पुंस्त्वात् ; घट: नित्यः प्रमेयस्वात् 1त्वत्क-ख. मघत्वे-क. 3 मान-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy