________________
494 ईश्वरसद्भावसमर्थनम्
[न्यायमञ्जरी [घटभूधरयो: सन्निवेशगतं सामान्यमस्त्येव] उच्यते-यागिति न बुद्धयामहे। धूमो हि महानसे कुम्भदासीफूत्कारमारुतसन्धुक्ष्यमाणमन्दज्वलनजन्मा कृशप्रायप्रकृतिरुपलब्धः। स यदि पर्वते प्रबलसमीरणोल्लसितद्भुतवहप्लष्यमाणमहामही. रुहस्कन्धेन्धनप्रभवो बहुलबहुलः खमण्डलमखिलमाक्रामन् उपलभ्यते, तत्किमिदानीमनलप्रमितिं मा कार्षीत् ॥
__ [हेतौ विद्यमानविशेषाकारणां न गमकाङ्गत्वम् ]
अथ विशेषरहितं धूममात्रमग्निमात्रेण व्याप्तमवगतमिति ततस्तदनुमान ; इहापि सन्निवेशमात्रं कर्तृमात्रेग व्याप्तमिति ततोऽपि तदनुमीयताम् ॥
[घटभूधरसन्निवेशयोः न शब्दसाम्यमात्रम् ] ननु! सन्निवेशशब्दमात्रसाधारण्यमत्र, न वस्तुसामान्य किश्चिदस्ति -भिक्षो! धूमोऽपि भवदर्शने किं 'वस्तुसामान्य मस्ति ।
मा भूद्वस्तुसामान्यम्, 'आकाशकालादि व्यावृत्तिरूपं तु संव्यवहारकारणमस्त्येव - हन्त ! तर्हि प्रकृतेऽपि असन्निवेशव्यावृत्तिरूपं भवतु सामान्यम् , आकाशकालादिविलक्षणरूपत्वात् पृथिव्यादेः ॥
कुम्भदासी- परिचारिका। 'दासी तु चेटिका चेटा वडबा कुम्भधारिका' इति वैजयन्ती। कुम्भधारिकैव कुम्भदासी । तत्किमिति । अस्ति महदन्तरं माहानसाग्निप्रभवधूमदावाग्निप्रभवधूमयोः। अथापि अनुमितिरनुभवसिद्धा। तथा घटभूधरसन्निवेशयोरत्यन्तान्तरवत्वेऽपि कार्यत्वानुमान युज्यत एव ॥
विशेषरहितं-अल्पत्वबहलत्वादिरहितम् ॥ भवदर्शन इति । सामान्यनिषेधकाः खलु बौद्धाः ॥
आकाशेति । आकाशः, कालश्च यथा तुच्छः, न तथा धूमादिः। अतः धूमादिविषयकः व्यवहारः-संव्यवहारः। · आकाशादिन्यावृत्तत्वमेव सत्त्वादि. रूपं सामान्यमित्यर्थः । 'अन्यव्यावृत्ति' इति पाटे तु सुलभोऽर्थः ॥
1 वस्तुमात्र-क.
अन्य-क,