________________
पवम्
आह्निकम् ३] ईश्वरसाधकानुमानस्य निर्दुष्टत्वम् 493
[सन्निवेशविशेषवत्वाद्वा पृथिव्यादीनां कार्यत्वम् ] अथवा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे; यस्मिन् प्रत्यक्षत उपलभ्यमाने सर्वापलापलम्पटा अपि न केचन विप्रतिपत्तुमुत्सहन्ते । तस्मान्नासिद्धो हेतुः ।।
(घटभूधरयोः सन्निवेशभेदात् तेन कार्यत्वानुमानाक्षेपः] ननु ! कत्रविनाभावितया यथाविधस्य सन्निवेशस्य शरावादिषु दर्शनं, तादशमेव सन्निवेशं उपलभ्य क्वचिदनुपलभ्यमानकर्तृके कलशादौ कत्रनुमानमिति युक्तम्। अयं त्वन्य एव कलशादिसन्निवेशात् पर्वतादिसन्निवेशः। नात्र सन्निवेशसामान्यं किश्चिदुपलभन्ते लौकिकाः। सन्निवेशशब्दमेव साधारणं प्रयुञ्जते । न च वस्तुनोरत्यन्तभेदे सति शब्दलाधारणतामात्रेण तदनुमानमुपपद्यते। न हि पाण्डुतामात्रसाधारणत्वेन 'धूमादिव ककोल रजोराशेरपि कृशानुरनुमातुं शक्यत इति । तदुक्तम् (प्र-वा-2-11, 12)
'सिद्धं यादृगधिष्ठातृ भावाभावानुवृत्तिमत् । सन्निवेशादि तत्तस्मात् युक्तं यदनुमीयते ॥ वस्तु भेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्ताऽनुमितिः पाण्डुद्रव्यादिव 'हुताशने ' इति ॥ सर्वार्थसिध्यादितः (1-8) अवगम्यते, तथापि बौद्धैरेवास्य पक्षस्य खण्डितत्वात् न गणना। तथा युक्तं शान्तरक्षितेन-'केचित्त सौगतंमन्या भप्यात्मानं प्रचक्षते' (श्लो. 336) इत्यादिना। कमलशीलोऽपि तत्पञ्जिकायां'केचित्-वात्सीपुत्रीयाः। ते हि सुगतसुतमात्मानं मन्यमाना अपि.... वितथाऽऽत्मदृष्टिमभिनिविष्टाः' इत्याद्याह ॥
कक्कोलेति । किञ्चित्पीतश्वेतवर्णवत्फलविशेषः। 'पाण्डुद्रव्यादिव' इति प्रमाणवार्तिकोक्तस्य विवरणतयेदमुक्तम् । शब्दसाम्यादिति । येन केनापिसाम्यं पर्याप्तं चेत् , रूपसाम्यमादायातिप्रसङ्ग इति भावः ॥
1 धूमादिवन्मुकुल-ख.
भेद-ख.
हुताशनः-क.