________________
492 ईश्वरसद्भावसमर्थनम्
[न्यायमञ्जरी मपि तेनैव पथा प्रतिष्ठितमिति तदप्यास्ताम् । सामान्यतोदृष्टं तु लिङ्गमीश्वरसत्तायामिदं घूमहे-पृथिव्यादिकार्थ धर्मि, तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यो धर्मः, कार्यत्वात् घटादिवत् ॥
पृथिव्यादीनां कार्यत्वम् दुरपह्नवम् ] ननु! कार्यत्वमसिद्धमित्युक्तम्। क एवमाचष्टे ? चार्वाकः ? शाक्यः? मीमांसको वा ? | __ चार्वाकस्तावत् वेदरचनाया रचनान्तरविलक्षणाया अपि कार्यत्वमभ्युपगच्छति यः, स कथं पृथ्व्यादिरचनायाः कार्यत्वमपडवीत? ____ मीमांसकोऽपि न कार्यत्वमपोतुमर्हति, यत एवमाह-. 'येषामप्यनवगतोत्पत्तीनां रूपमुपलभ्यते, तन्तुव्यतिषक्तजनितोऽयं पटः, तद्व्यतिषङ्गविमोचनात् तन्तुविनाशाद्वा नङ्ख्यतीति कल्प्यते' इति । एवमवयवसथोगनिर्वय॑मानवपुषः क्षितिधरादेरपि नाशसंप्रत्ययः संभवत्येव । दृश्यते च क्वचिद्विनाशप्रतीतिः, प्रावृषेण्यजलधरधारासारनिलुठित एव पर्वतैकदेशे ‘पर्वतस्य खण्डः पतितः' इति । वस्तुगतयोश्च कार्यत्वविनाशित्वयोः समव्याप्तिकता वार्तिककृताऽप्युक्तैव (श्लो. वा. 1-1-5 अनु. 9)--
'तेन यत्राप्युभी धर्मों व्याप्यव्यापकसम्मतौ।
तत्रापि व्याप्यतैव स्यादङ्गं न व्यापितामतिः' इति वदता। तस्माद्विनाशित्वेनापि कार्यत्वानुमानात्तन्मतेऽपि न कार्यत्वमसिद्धम्॥
शाक्योऽपि कार्यत्वस्य कथमसिद्धतामभिदधीत? येन नित्यो नाम पदार्थः प्रणयकेलिष्वपि न विषह्यते। तस्मात् सर्ववादिभिः अप्रणोद्यं पृथिव्यादेः कार्यत्वम् ।
ईश्वरनिराकारः त्रिविधा:-प्रत्यक्षातिरिक्तप्रमाणाभावात्तन्निरासवादिनः, वेदप्रामाण्यानभ्युपगमात्तदसिद्विवादिनः, वेदप्रामाण्याभ्युपगमेऽपि युक्तया तग्निरामवादिनश्च इति मत्वाऽऽह-क एवमित्यादि ।।
तेनेत्यादि । उभयोस्समन्यातत्वेऽपि हेतौ व्याप्यत्वमेव गमकं, न तु न्यापकत्वमित्यर्थः ॥
नित्यो नामेति । यद्यपि नित्यवस्तुवादिनोऽपे केचित् बौद्धास्सन्तीति