________________
'आदिकम् ३] ईश्वरे प्रमाणोपपादनम्
491 [वेहोऽपि ईश्वरसद्भावं बोधयितुं नालम् ] अगमस्यापि नित्यस्य ततारत्वमसांप्रतम्। ' तत्प्रणीते तु विभः कथं भवतु मादृशाम् ? ॥ १५४ ।। किञ्चागमस्य प्रामाण्यं तत्प्रणीतत्वहेतुकम्। तत्प्रामाण्याच्च तत्सिद्धिरित्यन्योन्याश्रयं भवेत् ॥ १५५ ।। अन्यथाऽनुपपत्त्या तु न शक्यो लब्धुमीश्वरः । न हि तद्दश्यते कार्य तं विना यन्न सिद्धयति ॥ १५६ ।। तस्मात् सर्वसद्विषयप्रमाणानवगम्यमानस्वरूपत्वादभावएवेश्वरस्येति सिद्धम् ॥
[लोकव्यवहारमानान्नेश्वरसिद्धिः न च प्रसिद्धिमात्रेण युक्तमेतस्य कल्पनम् । निर्मूलत्वात्तथा चोक्तं प्रसिद्धिर्वटयक्षवत् ॥ १५७ ॥ अत एव निरीक्ष्य दुर्घट
जगतो जन्मविनाशडम्बरम् । न कदाचिदनीदृश जगत् कथितं नीतिरहस्यवेदिभिः ।। १५८ ॥
ईश्वरे प्रमाणोपपादनम्
[अनुमानमेवेश्वरे प्रमाणम्] : अत्र वदामः-यत्तावदिद'मगादि-नगादि निर्माणनिपुणपुरुषपरिच्छेददक्षं प्रत्यक्षं न भवतीति-तदेवमेव । प्रत्यक्षपूर्वक मनुमान
नित्यस्य-अपौरुषेयस्य । शब्दप्रामाण्यं वत्कृपामाण्याधीनमित्युक्तं प्राक् (पु. 482)। माशां-ईश्वरमेवानभ्युपगच्छताम्। अन्यथाऽनुपपत्त्याथर्भापत्या-तादृग्रुपतर्केणेति वाऽर्थः। योग्यानुपपरेव ईश्वारासत्वे प्रमाणत्वात् योग्यतोपपादनाय सर्वस द्विषयेत्यादि।
अनीश-यादृशं दृश्यते, तद्विलक्षणं- ईश्वरकर्तृकमिति यावत् । नीतिः-चार्वाकतन्त्रम् , नीति:--नयः तर्कः। ब्रह्मणस्तर्कागोचरत्वरूपरहस्यसूचनाय वा एवमुक्ति: ॥
'मगादि-क.
पू-क.