________________
490
ईश्वरसद्भावाक्षेपः
न्यायमअरी
कर्मोपरमपक्षे तु पुनः सृष्टिर्न युज्यते । न कर्मनिरपेक्षो हि सर्गवैचित्र्यसंभवः ॥ १५१ ॥
[सृष्टिमलययो: ईश्वरकृतत्वासंभवः] अथ ब्राह्मण मानेन संवत्सरशतनिष्ठामधितिष्ठति परमेष्ठिनि महेश्वरस्य संजिहीर्षा जायते । तया तिरोहितस्वफलारम्भशक्तीनि कर्माणि संभवन्तीति संपद्यते सकलभुवनप्रलयः। पुनश्च तावत्येव रात्रिप्राये काले व्यतीते सिसृक्षा भवति भगवतः। तयाऽभिव्यक्तशक्तीनि कर्माणि कार्यमारन्भते इति तदप्ययुक्तम्
उद्भवाभिभवौ तेषां स्यातां चेदीश्वरेच्छया । तर्हि सैवास्तु जगतां 'सर्ग संहारकारणम् ॥ १५२॥ . .
किं कर्मभिः ? एवमस्त्विति चेत्--न-ईश्वरेच्छावशित्वपक्षे हि त्रयो दुरतिक्रमा दोषाः। तस्यैव ताक्महात्मनो निष्करुणत्वंअकारणमेव दारुणसर्गकारिणः। तथा वैदिकीनां विधिनिषेधचोदनानामानर्थक्यम्-ईश्वरेच्छात एव शुभाशुभफलोपभोगसंभवात्। अनिर्मोक्षप्रसङ्गश्च--मुक्ता अपि प्रलयसमय इव जीवाः पुनरीश्व. रेच्छया संसरेयुः। तस्मान्नेश्वराधीनो जगतां सर्गः, संहारो वा ।।
[उपमानं तु नेश्वरसाधकम्] . . इत्यनन्तरगीतेन नयेनेश्वरसाधने । नानुमानस्य सामर्थ्यमुपमाने तु का कथा? ॥ १५३ ॥ .
संवत्सरशतेति । 'सहस्रयुगपर्यन्तमहर्यत् ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ' (8-17) इति गीता ॥
मुक्ता अपीति। इच्छायां कर्माद्यपाधेरनङ्गीकारात् ईशः मुक्तान् संसारेण न योजयेत्, किन्तु संसारिजीवानेवेति विनिगमकस्य दुर्वचत्वादिति हेतुः॥
का कथेति। उपमानं हि केवलं शक्तिग्राहकं प्रमाणम् ॥
'सर्व-क.
चेत्-क.