________________
489
आह्निकम् ३] ईश्वरस्य जगत्संहर्तृत्वमपि न संभवति
जीवकर्मानुरोधेनैव जगत्सृष्टौ ईश्वरस्य स्वातन्त्र्यभङ्गः] तस्यापि तादृशा परकीयकर्मान्तरापेक्षासङ्कोचितस्वातन्त्र्येण किमैश्वर्येण कार्यम् ? राज्यमिव मन्त्रिपरवशमैश्वर्य कोपयुज्यते ताइक् ? यत्रापरनिरपेक्ष रुच्यैव न रच्यतेऽमिमतम् । अन्येनाप्युक्तम्-'किमीश्वरतयेश्वरो यदि न वर्तते स्वेच्छया
न हि प्रभवतां क्रियाविधिषु हेतुरन्विष्यते' इति ।
[लीलया जगत्सृजतीश्वर इति न तरामयुक्तम् ] अथ क्रीडार्था जगसगै भगवतःप्रवृत्तिः, ईदृशा च शुभाशुभरूपेण जगता सृष्टेन क्रीडति परमेश्वर इत्युच्यते-तर्हि क्रीडासाध्यसुखरहितत्वेन सृष्टेः पूर्वं अवाप्तसकलानन्दत्वं नाम तस्य रूप'मप'
हीयेत ॥
न च क्रीडाऽपि निश्शेषजनताऽऽतङ्ककारिणी। आयासबहुला चेयं कर्तुं युक्ता महात्मनः ॥ १४९ ॥ तस्मान्न जगतां नाथ ईश्वरः स्रष्टा संहर्ताऽपि भवति ॥
. . [ईश्वरस्य जगत्संहर्तृत्वमपि न घटते] न ह्यस्य ध्रियमाणेषु पूर्यते जन्तुकर्मसु । सकृत् समस्तत्रैलोक्यनिर्मूलनमनोरथः ॥ १५० ॥
ननु अज्ञानां जीवानां स्वीयकर्मज्ञानस्यासंभवेन, न तत्प्रेरकत्वं तेषां संभवीति चेत्-तत्राह-तस्येति। तस्य-ईश्वरस्य। प्रभवतां सर्वशक्तानाम् ॥
परेषामातङ्ककारित्वेऽपि स्वस्य किमायातमित्यत:- आयासेति। अनन्तकोटियुगकालं अनन्तसाधनगी क्रीडामविच्छेदेन को वा कुर्यात् ?
ध्रियमाणेषु-अनुवर्तमानेविति यावत् । अस्य मनोरथ इत्यत्रान्वयः । कर्मफलोपभागस्यापि सृष्टयद्देश्यत्वात् विचित्रकर्मणां युगपदुपरमासंभवादिति
भावः ॥
'मव-ख.
पूर्यन्ते-ख.
रथा-ख.