________________
ईश्वरसद्भावाक्षेप:
न्यायमञ्जरी
[दयया जगत्सृजतीश्वर इत्यप्ययुक्तम् ] अनुकम्पया प्रवर्तत इति चेत्-मैवम्
सर्गात् पूर्व हि निश्शेषक्लेशसंस्पर्शवर्जिताः।
नास्य मुक्ता इवात्मानो भवन्ति करुणास्पदम् ॥ १४७ ॥ परमकारुणिकानामपि दुस्सहदुःखदहनदन्दह्यमानमनसो जन्तूनवलोकयतामुदेति दया, न पुनरपवर्गदशा'वत् अशेष'दुःखशून्यानिति॥
करुणामृतसंसिक्तहृदयो वा जगत्सृजन् । .
कथं सृजति दुर्वारदुःखप्राग्भारदारुणम् ॥ १४८॥ [सर्वज्ञस्य सर्वशक्तस्येश्वरस्य करुणया सुखमयजगत्सृष्टिरेव युक्ता]
अथ केवलं सुखोपभोगप्रायं जगत् स्रष्टुमेव न जानाति, सृष्टमपि' वा न चिरमवतिष्ठते -- इत्युच्यते -तदप्यचारु ---निरतिशयस्वातन्त्र्यसीमनि वर्तमानस्य स्वेच्छानुवर्निसकलपदार्थस्थितेः परमेश्वरस्य किमसाध्यं नाम भवेत् ?
कर्मणां वैषम्यादिकारणत्वे ईश्वर एव माऽस्तु] नानात्मगतशुभाशुभकर्मकलापापेक्षः स्रष्टा प्रजापतिरिति चेत् ; कर्माण्येव हि तर्हि सृजन्तु जगन्ति, किं प्रजापतिना!
कर्मप्रेरणार्थमपि नेश्वरापेक्षा] . . अथाचेतनानां चेतनानधिष्ठितानां स्रष्टत्वमघटमानमिति तेषामधिष्ठाता चेतनः कल्प्यत इति चेत्-न-तदाश्रयाणामात्मनामेव चेतनत्वात् त एवाधिष्ठातारो भविष्यन्ति, किमधिष्ठात्रन्तरेणेश्वरेण?
सर्गात्पूर्वमिति । 'यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षरात् विविधा: सोम्य! भावाः प्रजायन्ते तत्र चैवापियन्ति' (मुण्डक-२-१-१) इति हि सृष्ट्यादौ ईश्वरसकाशात् तत्सदृशानामेव सृष्टिरुक्तेति भावः ॥
दर्शनमात्रेणैव दुःखावहत्वसूचनाय--प्रारभार इति ॥
1वदेषा-ख.
अचे-क.