SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ३] ईश्वरस्य जगत्स्स्रष्टत्वासंभवः 487 कार्यमपीश्वरशरीरं 'तत्कर्तृकं वा स्यात् ? ईश्वरान्तरकर्तृकं वा? तत्र- स्वयं निजशरीरम्य निर्माणमिति साहसम। कर्वन्तरकृते तस्मिन्नीश्वरानन्त्यमापतेत् ॥ १४४ ॥. भवतु, को दोषः ? इति चेत् -प्रमाणाभाव एव दोषः । एकस्यापि तावदीश्वस्य साधने पर्याकुलतां गताः; किं पुनरनन्ता नाम ? [ईश्वरः सव्यापारः ? उत निर्व्यापारः ?] . किञ्च व्यापारेण वा कुलालादिरिव कार्याणि सृजेदीश्वरः ? इच्छामात्रेण वा ? द्वयमपि दुर्घटम् व्यापारेण जगत्सृष्टिः कुतो युगशतैरपि । तदिच्छां चानुवर्तन्ते न जडाः परमाणवः ॥ १४५॥ [ईश्वरः प्रयोजनमुद्दिश्य जगत्सृजति ? उत अनुद्दिश्य ?] अपि च किं किमपि प्रयोजनमनुसन्धाय जगत्सर्गे प्रवर्तते प्रजापतिः? एवमेव वा? निष्प्रयोजनायां प्रवृत्तावप्रेक्षापूर्वकारित्वादुन्मत्ततुल्योऽसौ भवेत् । पूर्वोऽपि नास्ति पक्षः अवाप्तसर्बानन्दस्य रागादिरहितात्मनः । जगदारभमाणस्य न विद्मः किं प्रयोजनम् ॥ १४६॥ एवानन्तरं निरस्यते। तत्कर्तृकं-तच्छरीरस्वामीश्वरकर्तृकम् । ईश्वरान्तरेति न हि ईश्वरस्य शरीरं मादृशैः कर्तुं शक्यमिति भावः ॥ साहसं-सशरीर: स्वशरीरं सृजति ? उताशरीरः ? आये आत्माश्रयादिः। अन्त्ये पूर्वोक्तदोषाणां पुनः प्राप्तिः ॥ कुत इति। सृज्यानामानन्त्यं हेतु: । जडा:---न वा परमाणवः ईश्वरशरीरं इत्यर्थः ।। ___ एवमेव वा इति । सृष्टेनानेन जगता यथा न किञ्चित्प्रयोजन भवदीश्वरस्येदानी पश्यामः, तथैव सृष्टयादावपि वेत्यर्थः ॥ क. 2 एवमेव-क. उत्तरोऽपि-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy