________________
486 ईश्वरसद्भावाक्षेपः
न्यायमञ्जरी तेन कर्तुरभावेऽपि सन्निवेशादिदर्शनात् । अनैकान्तिकता हेतोः विप्रत्वे पुरुषत्ववत् ॥ १३९ ।।
[घटादिदृष्टान्तेन कुलालतुल्य एवेश्वरः स्यात् किञ्च व्याप्त्यनुसारेण कल्प्यमानः प्रसिद्धयति । कुलालतुल्यः कर्तेति स्याद्विशेषविरुद्धता ॥ १४०॥ व्यापारवानसर्वज्ञः शरीरी क्लेशसंकुलः। घटस्य यादृशः कर्ता ताडगेव भवेद्भवः ॥ १४१ ॥ विशेषसाध्यतायां वा साध्यहीनं निदर्शनम् । कर्तृसामान्यसिद्धौ तु विशेषावगतिः कुतः ? ॥ १४२ ॥
[ईश्वरः सशरीरः? उताशरीरः१] अपि च सशरीरो वा जगन्ति रचयेदीश्वरः? शरीररहितो वा? 'शरीरमपि च तदीयं कार्य ? नित्यं वा भवेत् ? सर्वथाऽनुपपत्तिः ॥
अशरीरस्य कर्तृत्वं दृश्यते न हि कस्य चित् ।
देहोऽप्युत्पत्तिमानस्य देहत्वाञ्चैत्रदेहवत् ॥ १४३ ।। दूरीकृतत्वादित्यर्थः। तेन–एतादृशाकर्तृकतृणादिदृष्टान्तेन । अविने पुरुषत्ववदिति अकर्तृके कार्यत्वस्य दृष्टान्तः ॥
विशेषविरुद्धतेति । विशेषः--साध्य हेतुर्वा साध्यं हेतुर्वा यादृशं लोके दृष्टं, तादृशमेव पक्षे तेन हेतुना तादृशं सिद्धयेत् । नो चेत् तादृशविशेषविरुद्धता। ततश्च घटादौ यादृशं सकर्तृकत्वं दृष्टं, तादृशमेव नगादावपि सिद्धयेत् । अन्यथा तु विरोध एव । यद्यपि विशेषविरुद्धताया हेत्वाभासता निराकरिष्यते (११ आह्निके), अनुमानसामान्योच्छेदप्रसङ्गादिति ; अथापि पूर्वपक्षिणस्तस्येष्टत्वात् स दोषस्तस्य सम्मतः। 'क्लेशकर्मविपाकाशयापरामृष्टः' इति पूर्व (484 पु) कथनात शरीरक्लेशसंकुलः इत्युक्तम्। विशेषसाध्यतायां-- तादृशकर्तृविशेषस्य साधने। विशेषः -केशायपरामर्शः॥
अशरीरस्येति । तथाच अनित्यशरीरवत्वपक्ष एव शिष्टः । स
1 तदीयं शरीरं-ख.