________________
485
आह्निकम् ३] अनुमानेनेश्वरसाधनासंभवः
[घटादिदृष्टान्तेन जगत: सकर्तृकत्वं नानुमातुं शक्यम्] न च सामान्यतो दृष्टं लिङ्गमस्यास्ति किञ्चन । क्षित्यादीनां तु कार्यत्वमसिद्ध सुधियः प्रति ॥ १३३ ॥ शैलादिसन्निवेशोऽपि नैष कनुमापकः। कर्तृपूर्वककुम्भादिसन्निवेशविलक्षणः ॥ १३४ ।। दृष्टः कर्षविनाभावी सन्निवेशो हि यादृशः। तादृङ्नगादौ नास्तीति कार्यत्ववदसिद्धता ॥ १३५ ॥
[सकर्तृकत्वसाधककार्यत्वहेतु: तृणादौ व्यभिचरितः] सिद्धत्वेऽपि 'न हेतुत्वं' अनैकान्त्यात्तणादिमिः । अकृष्टजातैः, कर्तारमन्तरेणाप्तजन्मभिः ॥ १३६ ॥ तेषामुत्पत्ति समयप्रत्यक्षत्वेन लभ्यते । कर्तुर्दश्यत्व'मपि, एवं' अभावोऽनुपलब्धितः ।। १३७ ॥
[दृष्टातिरिक्तं कारणं कुत्रापि कल्पयितुं न शक्यम् ] न च क्षितिजलप्रायदृष्टहेत्वतिरेकिणः। कस्यापि कल्पनं तेषु युज्यतेऽतिप्रसंङ्गतः ॥ १३८ ॥
'नैष कर्चनुमापकः' इत्यत्र साभिप्रायविशेषणं शैलसन्निवेशस्य कर्तृपूर्वकेत्यादि। सनिवेशः-अवयवसंस्थानम् । वैलक्षण्यमेवोपपादयति-दृष्ट इत्यादि। तथा च घटादिसन्निवेशसाम्यस्यैव नगादावसिध्या, तेन कार्यत्वमपि न सिध्यति॥
अकृष्टजातैः-कर्षणमन्तरापि जातैः । तेषां-सकर्तृकाणां कुम्भादीनाम् । तेषां सकर्तृकत्वं यदा येन प्रमाणेनावगतं, तदा तेनैव कर्तुर्दश्यत्वमपि । प्रकृते तथाऽनुपलब्धे: कर्तुरभाव एवेत्यर्थः। अथवा तेषां-तृणादीनां उत्पत्तिसमयप्रत्यक्षत्वं यतो न लक्ष्यते, तथा कर्तुरपि दृश्यत्वं न लक्ष्यत इति अनुपलब्धेः कर्तुरभाव: । ४९५ पुटो द्रष्टव्यः॥
क्षितिजलेति। तृणादीनां कारणं हि क्षेत्र, जलं इत्यादि यत् दृष्टं तदेवालं हेतुत्वे । अन्यथा कुत्रापि कार्यकारणभावानिर्णयः, प्रत्यक्षस्य
1 न सिद्धत्वं-ख.
समये प्रत्यक्षत्वं-ख. 3 लक्ष्यते-ख. 'मित्येवं-क