________________
484
ईश्वरसद्भावाक्षेपः
[न्यायमअरी
[वेदानां परमेश्वरप्रणीतत्वम् ] ननु वेदे प्रमाणान्तरसंस्पर्शरहितविचित्रकर्मफलगतसाध्यसाधनभावोपदेशिनि कथं तदर्थसाक्षाही पुरुष उपदेष्टा भवेत् ? उच्यते
वेदस्य पुरुष: कर्ता न हि यादृशतादृशः। किन्तु त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥ १२८॥ स देवः परमो ज्ञाता नित्यानन्दः कृपान्वितः। क्लेशकर्मविपाकादिपरामर्शविवर्जितः ॥ १२९ ॥
. ईश्वरसद्भावाक्षेपः] अत्राह-किं ब्रूषे ? त्रैलोक्यनिर्माणनिपुणमतिरिति ! अहो तव सरलमतित्वम् ! न हि तथाविधपुरुषसद्भावे किञ्चन प्रमाणमस्ति ॥
(ईश्वरः न प्रत्यक्षः] . तथा हीश्वरसद्भावो न प्रत्यक्षप्रमाणकः। न ह्यसावक्षविज्ञाने रूपादिरिव भासते ॥१३०॥ न च मानलविज्ञानसंवेद्योऽयं सुखादिवत् । योगिनामप्रसिद्धत्वात् न तत्प्रत्यक्षगोचरः ॥ १३१॥
[ईश्वरः नानुमानिकः] प्रत्यक्षप्रतिषेधेन तत्पूर्वकमपाकृतम् ।। अनुमान, 'अनिर्माते तस्मिन् व्याप्त्यनुपग्रहात् ॥ १३२॥
यादृशतादृशः- यः कश्चित्सामान्यशक्तिमान् ॥
अत्राहेति। नात्र विशिष्य कश्चित् पूर्वपक्षी, प्रमाणचतुष्टयोपन्यासात् । किन्तु मीमांसकैः ईश्वरनिराकर्तृणां चार्वाकबौद्धजैननैयायिकादीनां वादान संगृह्य उपन्यस्त: पूर्वपक्ष: प्रकृतानुगुणमनूदितः ॥ ___ सुखादिवदिति । स्वात्म-तत्समवेतगुणा एव हि मनोग्राह्या इति भावः । योगिनामिति। यद्यपि योगिप्रत्यक्षं पूर्व (दु. 268) प्रसाधितम् ; तदनभ्युपगमेनात्राक्षेपः॥
1 अविज्ञाते-ख.