________________
आह्निकम् ३] वेदेऽपि प्रामाण्यं गुणाधीनमेव
483 [गुणज्ञानं दोषाभावनिश्चयायैवेत्यप्ययुक्तम् ] यत्त दोषप्रशमनचरितार्था एव पुरुषगुणाः प्रामाण्यहेतवस्तु न भवन्तीति (पु. 435)---अत्र शपथशरणा एव श्रोत्रियाः। न च बाधानुत्पत्तिमात्रेण वैदिक्याः प्रतीतेः प्रामाण्यं भवितुमर्हति, 'पक्ष्मलाक्षीलक्षमभिरमयेत् विद्याधरपदकामः' इत्यादावपि प्रामाण्य'प्रसङ्गात्। उक्तं च केन चित्
“यथा हि स्वप्नदृष्टोऽर्थः कश्चिद्वीपान्तरादिषु । असंभवद्विसंवादः श्रद्धातुं नैव शक्यते ॥ तथा चोदनयाऽप्यर्थ बोध्यमानमतीन्द्रियम्। 'असंभवद्विसंवादं न श्रद्दधति के चन” इति ॥
तत्र स्वप्नज्ञाने हेतुः निद्रादिदोषोऽस्तीति दुष्टकारणशानादप्रामाण्यमिति चेत्-लोलाक्षीलक्षवाक्ये किं वक्ष्यसि? प्रभवस्तस्य न शायत इति चेत्-न तरामसौ वेदेऽपि त्वन्मते ज्ञायत इति को विशेषः? महाजनादिपरिग्रहोऽस्य नास्तीति चेत्-अन्वेषणीयं तर्हि प्रामाण्यकारणम् , न बुद्ध यत्पादकत्वादेवौत्सर्गिकं प्रामाण्यमिति युक्तम् ॥
साक्षाद्दष्टनरोक्तत्वं शब्दे यावन्न निश्चितम् । बाधानुत्पत्तिमात्रेण न तावत्तत्प्रमाणता ॥ १२७ ॥ [अपौरुषेयत्वाद्वेदस्य दोषाभावप्राप्त्या स्वत: प्रामाण्यमित्यपि न] यदपि वेदे कारणदोषनिराकरणाय कथ्यते (श्लो. वा 1-2-63)
'यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः' इति-तदप्यसांप्रतम्-असति वक्तरि प्रामाण्यहेतूनां गुणानामप्यभावेन तत्प्रामाण्यस्याप्यभावात् । न च वेदे वक्तुरभावः सुवचः-तथा ह्येतदेव तावद्विचारयामः, किं वेदे वक्ता विद्यते न वेति ॥
असंभवद्विसंवादः-अप्राप्तविसंवादोऽपि। तस्य प्रभवः-तद्वाक्यस्य मूलम् । त्वन्मते-अपौरुषेयः खलु वेदस्तव ॥
1 दर्शनात्-..
असंवाद वि-ख.