________________
482 वेदानां परत एत्र प्रामाण्यम्
न्यायमञ्जरी महिम्ना वा, पुरुषघटितसमयसम्बन्धवलेन वेति विचारयिष्यामः (४ आह्निकम् ) । प्रकाशकत्वमानं तु दीपादेरिव तस्य रूपम् । 'यथा' हि दीपः प्रकाशमानः शुचिमशुचिं वा यथासन्नितहितमर्थमवद्योतयति, तथा शब्दोऽपि पुरुषेण प्रयोज्यमानः श्रवणपथमुपगतः सत्येऽनृतेऽवा, समन्वितेऽसमन्विते वा, सफले निष्फले वा, सिद्धे कार्ये वाऽर्थे प्रमितिमुपजनयतीति तावदेवास्य रूपम्। अयं तु दीपाच्छब्दस्य विशेषः-यदेष सम्बन्धव्युत्पत्तिमपेक्षमाणः प्रमामुत्पादयतीति, दीपस्तु तन्निरपेक्ष इति ॥
वक्तृगुणदोषाधीने एव शब्दप्रामाण्याप्रामाण्ये] तस्याः' शब्दजनितायाः प्रमितेः यथार्थतरत्वं 'पुरुषदर्शनाधीनम्'--सम्यग्दर्शिनि शुचौ पुरुष सति सत्यार्था सा भवति प्रतीतिः, इतरथा तु तद्विपरीतेति। तत्र यथा नैसर्गिकमर्थसंस्पर्शित्वं शब्दस्य रूपं इति समर्थितं, एवमस्य स्वाभाविकं सत्यार्थत्वमपि न रूपम् । एवमभ्युपगम्यमाने विप्रलम्भकवचास विसंवाददर्शनं न भवेत्। तस्मात्पुरुषगुणदोषाधीनावेव शाब्दे प्रत्यये संवादविसंवादौ ॥
[शब्दे गुणदोषयोः सौलभ्यम् ] न चेन्द्रियादाविव तत्र दुर्भणा गुणा:--रागादयो दोषाः, करुणादयो गुणाः पुरुषाणामतिप्रसिद्धा एव। पुरुषगुणा एव शब्दस्य गुणाः न स्वशरीरसंस्थाः चक्षुरादेरिवेति। तत्र यदि पुरुषगुणानां प्रामाण्यकारणता नेष्यते, दोषाणामपि विप्लवहेतुता मा भूत् ॥ __अयं तु विशेष इति। इदमुपलक्षणम्-प्रत्यक्षे चक्षुरेव करणम् , दीपस्तु सहकारी। अत्र शब्द एव करणम् , शाब्दबोधः खल्वयम् ॥ . - पुरुषदर्शनाधीनं - शब्दप्रयोक्तृपुरुषदर्शनानुगुणम् । शुचौविप्रलम्भकत्वादिदोषरहिते। एवमभ्युपगम्यमाने यथार्थत्वमपि शब्दस्य स्वाभाविकमित्यङ्गीक्रियसाणे सति ॥
पूर्व (422 पु.) उक्तं स्मरन् समाधत्ते---न चेत्यादिना। स्वशरीर संस्थाः -शब्दस्वरूपनिष्ठाः। दुर्भणा:-दुर्वचाः ॥
1 तथा-ख. सत्योऽनृतो-ख. तस्यास्तु-क. 4 पुरुषाधीनं-ख.