________________
आह्निकम् ३] वेदानां परत एव प्रामाण्यम्
481 [ख्यातिवादोपसंहारः] नात्मख्यातिर्बाह्यतयाऽर्थप्रतिभासात्
नासत्ख्यातिनं ह्यसतां धीविषयत्वम । उक्तोऽख्यातो दूषणमार्गो विपरीतख्यातिस्तस्मादाश्रयणीया मतिमद्भिः॥ १२४॥
[ वेदानां प्रामाण्यं परत एव] स्थिते च तस्मिन् विपरीतवेदने ___ तदीयसाधर्म्यकृतोऽस्ति संशयः। तदा च संवादमुखप्रतीक्षणात्
भजन्ति 'वोधाः परतः प्रमाणताम् ॥ १२५ ॥ 'प्रत्यक्षादिप्रमाणानां तद्यथाऽस्तु तथाऽस्तु वा।
शब्दस्य हि प्रमाणत्वं परतो मुक्तसंशयम् ॥ १२६ ॥ .[वेदे प्रामाण्यनिश्चयमन्तरा तद्विहितेषु न प्रवृत्तिसंभव:]
दृष्टे हि विषये प्रामाण्य निश्चयमन्तरेणैव लघुपरिश्रमेषु कर्मसु प्रवृत्तिरिति तदुपयोगिप्रत्यक्षादिप्रमाणप्रामाण्य निश्चये दुरुपपादे कोऽभिनिवेशः ? शब्दे पुनः अदृष्टपुरुषार्थपथोपदेशिनि प्रामाण्यमनिनिश्चत्य महाप्रयत्ननिर्वानि ज्योतिष्टोमादीनि न प्रेक्षापूर्वकारिणो यज्वानः प्रयुञ्जीरन्नित्यवश्यं निश्चेतव्यं तत्र प्रामाण्यम्। तच्च परत एवेति ब्रूमः॥
- [शब्दानां परत:प्रामाण्ये हेतुः] शब्दस्य वृद्धव्यवहाराधिगतसम्बन्धोपकृतस्य सतः प्रतीतिजनकत्वं नाम रूपमवधृतम्। तत्तु नैसर्गिकशक्तथात्मकसम्बन्ध
अस्ति संशयः- बोधस्वरूपसाधारणधर्मकृतः सर्वत्रापि ज्ञाने 'इदं प्रमाण न वा?' इति भवत्येव। मुक्तसंशयं इति क्रियाविशेषणम् ॥ ___ अदृष्टपुरुषार्थोपदेशिनि शब्दे-वेदे। दृष्टार्थविषयकलौकिकशब्दस्य तु अनुपदोक्तप्रत्यक्षतुल्या गतिरिति भावः ॥
'वेदा:-ख...
NYAYAMANJARI