________________
480
भ्रमस्वरूपपरिशीलनम् - [न्यायमञ्जरी वर्तनं व्यवहार इति चेत्, तर्हि स्वप्ने परिरभ्यमाणाया योषितः, कुटकार्षापणस्य च लौकिकत्वं प्राप्नोति । उत्पद्य नष्टे घटे अर्थक्रियाया निवृत्तेरलौकिकत्वं स्यात्॥
___ अपि च यः शुक्तिकायां रजतव्यवहारं न करोति, स रजताभावमेव बुद्धा; न रजतस्य सतस्तस्यालौकिकताम् ॥
[अलौकिकरजतभानमतेऽपि अन्यथाख्यातिरवर्जनीया] - यदि चेदमलौकिकं रजतं तत् किमर्थ मिह तदर्थक्रिया प्रवर्तते? अलौकिकं लौकिकत्वेन गृहीत्वेति चेत्-सैवेयं तपस्विनी विपरीतख्यातिरायाता। तस्मात् विपरीतख्यातिद्वषेण कृतमीदृशा। अत्रापि लोकसिद्धैव प्रतीतिरनुगम्यताम् ॥
स्वित:प्रामाण्यसाधनायाख्यातिवादः न पर्याप्तः ] न वा मीमांसका एते स्वभार्यामपि वेश्मतः । निस्सारयितुमिच्छन्ति स्वतःप्रामाण्यतृष्णया ॥ १२१॥ न चैवमपि तत्सिद्धिः बुद्धिद्वैविध्यदर्शनात् । संशये सति संवादसापेक्षत्वं तथैव तत् ॥ १२२॥ क्लेशेन तदमुनाऽपि स्वार्थस्तेषां प्रसिद्धयति न कश्चित् ।
यद्भवति 'दैव'गत्या राजपथेनैव तद्भवतु ॥ १२३ ॥ अपि चेत्यादि । भ्रान्तः यां शुक्तिं दृष्ट्वा रजतं जानाति, तदैव तां अभ्रान्तो रजततया न व्यवहरतीत्यत्र, तेन तथाऽज्ञानमेव हि हेतुर्वाच्यः, न तु तत्रालौकिकरजतसत्तां जाननेव लौकिकरजताभावं निश्चित्य तां शुक्तिका न्यवहरति! अत: अलौकिकरजतभानं अनुभवविरुद्धम् ॥
ईशा द्वेषेण कृतं-- अलमित्यर्थः ॥
न वा इच्छन्ति इति काकुः । स्वतःप्रामाण्यव्यामोहेन अलौकिकमेव व्यवहरन्तीति कृत्याकृत्यमपि न जानन्तीति वा उपहासः। वुद्धिद्वैविध्यं प्रमाभ्रमभेदेन । - स्वार्थ:-स्वामिमतम् । यद्भवतीत्यादि। यत्त सर्वथाऽनिवार्य, तत् हार्दमेव स्वीकुर्मः। न तु दौर्बल्येन अपथे गन्तव्यमिति भावः ॥
1 चैव-ख.