________________
552 शम्दानामनित्यत्वसमर्थनम्
[न्यायमजरी निबन्धनत्वात् गोत्वादिजातिनिह्नवः बौद्धवन्मन्तव्यः। न चैतदेवम् ; तत् गोत्ववत् शब्दत्वमपि न प्रत्याख्येयम् ॥
[ब्राह्मणत्वादिजातीनां प्रत्यक्षगम्यत्वम् ] ... एतेन ब्राह्मणत्वादिसामान्यमपि समर्थितं वेदितव्यम् , उपदेशसहायप्रत्यक्षगम्यत्वात् । न चोपदेशापेक्षणात् अप्रत्यक्षत्वं तस्य भवितुर्महति ; गोत्वादिप्रत्ययस्यापि सम्बन्धग्रहणकाले तदपेक्षत्वदर्शनात्। उक्तं च 'न हि यत् गिरिशृङ्गमारुह्य गृह्यते तत् अप्रत्यक्षम्' इति ॥
___ [ब्राह्मणत्वादिकं न औपाधिकम् ] __न चौपाधिकः पैठीनसिपैप्पलादिप्रभृतिषु ब्राह्मणप्रत्ययः, उपाधेरग्रहणात् । औपाधिकत्वस्य गोत्वादापि वक्तुं शक्यत्वात् ॥
अपि च उपदेशनिरपेक्षमपि चक्षुः क्षत्रियादिविलक्षणां सौम्याकृर्ति ब्राह्मणजातिमवगच्छति-इत्येके। तदलमनया कथया ॥
..[शब्दानित्यत्वेऽप्यर्थबोधोपपत्तिः] "प्रकृतमुच्यते-गत्वादिभिर्जातिभिरेव अर्थसंप्रत्ययोपपत्तेः, यदुक्तं ‘दर्शनस्य परार्थत्वात्' इति (पु. 524)-पतदयुक्तम्॥
एतेन सर्वत्र योगपद्यादित्येतदपि प्रत्युक्तम् , सम्बन्धनियमस्य गत्वादिभ्य एव सिद्धेः ॥
. [शब्दभेदप्रतीति: न उच्चारणभेदावलम्बना] . .
यदपि सङ्ख्याभावात् कृत्वसुचप्रयोगदर्शनमुदग्राहि-(पु. 525) तदपि व्यभिचारि
गिरिशृङ्गेति। तादृशोभतस्थानारोहणं हि प्रत्यक्षसहकारि। तद्वदेवात्रोपदेशोऽपीत्यर्थः ॥
वस्तुतस्तु ब्राह्मणत्वं न केवलशरीरनिष्ठम् , कर्तृत्वादीनामप्येवं प्रसङ्गात् । एवं नात्ममात्रनिष्ठम् , भात्मनि विशुद्ध तादृशजात्यादीनामसंभवात् । - मत उभयगतं विलक्षणमिदं ब्राह्मणत्वादिकं आरमापरोक्षज्ञान्येकगम्यमित्ययं विचारोऽतिसूक्ष्म इत्याशयेनाह–अलमिति ॥