________________
478
भ्रमरूपरिशीलनम्
[ न्यायमञ्जरी
मिति युक्तम् । तस्मादस्ति ज्ञानानां वाध्यबाधकभावः । स चायं बाधव्यवहारो विपरीतख्यातिपक्ष एव सामर्थ्यमस्खलितं दधातीति स एव ज्यायान् ॥
[ भ्रमे अलौकिकरजतादिभानपक्षः ]
अक्षः कोऽपि नाम मीमांसकस्त्वाह येयं शुक्तिकायां रजतप्रतीतिर्विपरीतख्यातिरिति तद्वादिनामभिमता, सा तथा न भवतौति, सत्यरजत प्रतीतिवदत्राप्यवभास्यरजतसद्भावात् । लौकिकालौकिकत्वे तु विशेषः । रजतज्ञानावभास्यं हि रजतमुच्यते, तथ किञ्चित् व्यवहारप्रवर्तकं किञ्चिन्नेति । तत्र व्यवहारप्रवर्तकं लौकिकमुच्यते, ततोऽन्यदलौकिकमिति । यच्च शुक्तिकाशकलमिति भवन्तो वदन्ति तदलौकिकं रजतम् । रजतज्ञानावभास्यत्वात् ' रजतं तत् व्यवहाराप्रवृतेरलौकिकमिति ॥
--
[ भ्रमे अलौकिक रजत भानपक्ष निरास: ]
तदेतदपरामृष्टसंवेदनेतिवृत्तस्याभिनयपदार्थसर्गप्रजापतेरभिधानम् । बाधकप्रत्ययेन तत्र रजताभावस्य ख्यापनात् । नेदं रजतमिति हि रजतं प्रतिषेधत्येष प्रत्ययः, न विद्यमानरजतस्यालीकिकत्वमवद्योतयति इति ॥
अथ नेदं लौकिकमिति व्याख्यायते ; हन्त ! वाक्यशेषः क्रियतां 'संयजरङ्गानि' इतिवत्। सोऽयं श्रोत्रियः स्वशास्त्र वर्तनीपापवादत्वं मीमांसकै (कौस्तु. 3-3-1 ) रप्यङ्गीकृतमेव । विपरीतख्यातिपक्ष एवेति । भख्यातिपक्षे ज्ञानद्वयस्यापि यथार्थत्वेन नेदृशं बाधनं स्वरसतो वर्णितुं शक्यमित्यर्थः ॥
किं नाम लौकिकत्वमलौकिकत्वं च ? कश्च तयोस्साधारणां धर्म: : इत्याहरजतज्ञानेत्यादि । व्यवहारः कटकनिर्माणादिः । वदन्ति इत्यत्र काल इति शेषः । प्रतीतिकाले तु रजतमित्येव भानाव रजतज्ञानावभास्यत्व - रूपं रजतत्वसामान्यं तत्रास्त्येव । न्यायकन्दल्यामप्ययं पक्षः ( पु 181 ) प्रदर्शितः ॥ रजतं --- रजतसामान्यम् । विद्यमानस्य तदानीं भातस्येति भावः ॥ व्याख्यायते, बाधकप्रत्यय इति शेषः । संयजत्रैरित्यादि । अननुषङ्गाधिकरण (2-1-49) विषयोऽयम् । 'सं ते प्राणो वायुना गच्छतां