________________
आह्निकम् ३] सिद्धान्ते बाधस्वरूपम्
477 गायता नृत्यता वाऽपि जपता जुह्वताऽपि वा।
तच्चत् कार्य कृतं तेन किमवान्तरकर्मणा? ॥ ११९॥ . ' तदभ्युपगमे वाऽपि तत्किं विदधता कृतम् ? '
तच्च किं कुर्वतेत्येवमवधिः को भविष्यति ? ॥ १२० ॥ तदलममुनाऽवान्तरप्रश्नेन । 'सर्वथा' बाधकप्रत्ययोपजनने सति हानादिरूपं पूर्वप्रमाणफलं निवर्तत इति तेन तद्वाघितमुच्यते ।।
[बाधकज्ञानस्य विषयकथनम् ] समानासमानविषयविकल्पोऽपि (पु. 454) न पेशल:- एकस्मिन् विषये विरुद्धाकारग्राहिणोनियोबाध्यबाधकभावाभ्युपगमात। चित्रादिप्रत्यये कथं न बाध इति चेत् ; पूर्वज्ञानोपमर्दनोत्तरविज्ञानानुत्पादात् ॥ __अत एव एकंत्रापि धर्मिणि बहूनां धर्माणामितरेतरानुपमर्दैन वेद्यमानानामस्त्येव समावेशः ॥
- पूर्वज्ञानेनोत्तरज्ञानस्य न बाधसंभवः] पूर्वोपमर्दे'नोत्तर विज्ञान जन्मतश्च एतदपि प्रत्युक्तं भवति, यदुक्तं (पु. 454)-'पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सत्यागन्तु ज्ञानमुत्तरं वाध्यताम्' इति--यतः पूर्वोपमर्देनैव तदुत्तरं ज्ञानमुदेति ; विषय. सहायत्वात् , प्रमाणान्तरानुगृह्यमाणत्वाच्च उत्तरमेव ज्ञानं बाधक
बाधकं ज्ञानं किं करोति ? इति प्रश्न:-'गाति' इत्युक्ते, तत्र किं कृत्वा गातीति प्रश्नतुल्य इत्याह -- गायतेति। उत्तरोत्तरत्र क्रियान्तरान्वेषणे भनवस्थाप्रसङ्गः।
- अत एव-परस्परानुपमर्दैनोत्तरविज्ञानोत्पादादेव । एकत्रापीत्यादि। 'घटोऽयं नीलः, महान् , एकः, पटसंयुक्तश्च इत्यादिप्रतीति: अत्र प्रमाणम् ॥
यत इत्यादि। पूर्वज्ञानं असञ्जातविरोधित्वात् प्रबलमिति चेत् , सत्यम्। परन्तु ज्ञानस्य करणाधीनत्वेन पुरुषतन्त्रत्वाभावात् जायमानं ज्ञानं पूर्वमुपमृद्यैव जातमिति ततोऽपि उत्तरं ज्ञानमेव प्रबलम् । अन्यथासिद्धात् पूर्वात् परमेव धनन्यथासिद्धं प्रबलम् । अङ्गगुणविरोधन्यायस्यासनातविरोधन्या___ मर्वत्र -ख. 2 निवर्तयत-क. नेतर-ख. 'नाजननाच्चैतदपि-ख..