________________
476
भ्रम स्वरूपपरिशीलनम्
न्यायमञ्जरी
[विषयापहारस्यैव बाधरूपत्वम् ] यस्तु बाधप्रकारःप्राग्विकल्पितः -- तत्र सहानवस्थानसंस्कारोच्छेदादिपक्षा अनभ्युपगमेनैव निरस्ता इत्यस्थाने कण्ठशोष आयुष्मताऽनुभूतः। विषयापहारस्तावदस्तु बाधः। विषयस्य च न प्रतिभातत्वमपह्रियते, किन्तु प्रतिभातस्यासत्त्वं ख्याप्यत इत्यपहारार्थः। असत्यमपि नेदानीमुपनतस्य ख्याप्यते, येन 'पूर्वदृष्ट द्रुघणभग्नकुम्भाभावप्रतिभासवदबाधः स्यात् । न च तदानीमप्यभावग्रहणे वस्तुनो यात्मकत्वमाशङ्कनीयम् ; पूर्वावगताकारोपमर्दद्वारेण बाधकप्रत्ययोत्पादात् ; यन्मया तदा रजतमिति गृहीतं तद्रजतं न भवति, अन्यदेव तद्वस्त्विति ॥
[प्रतीतयः न वर्तमानमात्र विषयिण्य:] ननु ! स्वकालनियतत्वात् ज्ञानानां कथमुत्तरस्य ज्ञानस्य पूर्वज्ञानोत्पादकालावच्छिन्नतद्विषयाभावग्रहणसामर्थ्यम?-किं कुर्मः? तथा प्रत्ययोत्पादात् । न भन्नघटवदिदानी तन्नास्तिता गृह्यते, अपि तु तदैव तदसदिति प्रतीतिः। यथा च न वर्तमानकनिष्ठा एव विषयप्रतीतयस्तथा क्षणभङ्गभङ्गे (9 आह्निक) वक्ष्यामः ॥
[फलापहारस्य बाधत्वपक्षोऽपि युक्तः] अथवा फलापहारो भवतु बाधः । प्रमाणफलत्वं च हानादिबुद्धीनां प्रत्यक्षलक्षणे वर्णितमिति (पु. 174) तदपहरणात् प्रमाण बाधितं भवत्येव। किंकुर्वता बाधकेन प्रमाणफलमपहृतमिति चेत्
इदानीं-बाधप्रत्ययकाले उपनतस्य, असत्त्वस्येति शेषः । न हि कालभेदेन सत्वासत्वयोर्विरोधः । तदानीं भ्रमकाले। द्यात्मकत्वमिति । भ्रमकाले सत्त्वेनैव भानात् , तदानीमेवासत्त्वस्यापि भानाञ्चेति भावः । पूर्वेत्यादि । तदानीमसत्वं न हि तदानीमेव भातम् , येन यात्मकता स्यात् इति भावः ॥ __स्वकालेत्यादि.। ज्ञानं हि वर्तमानकविषयं, प्रत्युत ऐन्द्रियिकम् । अतीतादिविषयकं तु स्मृतिरेव । अतश्च प्रत्यक्षं वर्तमानैकग्राहीति अनन्तर कालिकः बाधप्रत्ययः पूर्वकालिकासत्त्वं कथमवगमयेदित्यर्थः ॥
1 दृष्टपूर्व-ख.