SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ 475 आह्निकम् ३) भ्रमशानालम्बनकथनम् द्वित्वेन चन्द्रमसं गृह्णाति । किश्चिनु तिमिरं तत्र विवरवदन्तराऽन्तरा तिष्ठति चक्षुषः । तेन विरलप्रसृता नयनाश्मयः सूक्ष्माः सूर्यांशुभिहाहन्यमानाः शकूर्चकाकारा भवन्तीति तदेवालम्बनम् । अनुदितेऽस्तमिते या सवितरि केशोण्डूकप्रत्ययस्यानुत्पादात् ।। गन्धर्धनगरक्षाने जलदाः पाण्डुरत्विपः । आलम्रनं गृहालप्रकाराकारधारिणः ॥ ११८ ॥ तस्मान निपरीतख्याती पनत्रयमपि निरवद्यम ॥ . ख्यातिसाङ्कर्यपरिहार: यः पुनः इतरेतरसङ्करः ख्यातीनामुदाहारि (पु. 400)-तत्र आत्मख्यात्यख्याती अपवर्गाह्निके (९तमे) वयमपि विज्ञानद्वित. मपाकरिष्यन्तः पराकरिष्याम इति किं तश्चिन्तया ? 'विपरीत ख्याती तु तत्साङ्कय परिहतम् । . (अख्याते: विपरीतख्यातिहेतुत्वम् ] यत्पुनरवादि- 'सर्ववादिभिः स्मृतिप्रमोषोऽभ्युपगत एव । प्राभाकरैस्तु यशः पीतम्" इति (पु. 460)-तत्र वाद्यन्तराणि तावत् यथा भवन्ति, तथा भवन्तु । वयं तु स्मृत्युपारूढरजताद्याकारप्रति • भासमभिवदन्तो बाढं स्मृतिप्रमोपमभ्युपगतवन्तः। किन्तु न तावत्येव विश्राम्यति मतिः। अपि तु रजताद्यनुभवोऽपि संवेद्यत इति · न स्मृतिप्रमोपमात्र एव घिरन्तव्यम् । अतो विपरीतख्यातिपक्ष एव निरवद्य इति स्थितम्॥ निरवद्य इति । यद्यपि 'तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन ?' इति म्यायात विपरीतख्यातिहेतुनैव अख्यात्या भ्रमनिर्वाहे सोपानान्तरारोहणं गौरवप्रस्तम् -- परन्तु रजतप्रतीतेरनुभवसिद्धत्वेन न गौरवलाघवचर्चाया अवकाशः । यथोक्तममियुक्त :-- 'स्वारस्यमन्ययाव्यातावख्यातो छाघवं स्थितम'। (न्या. प. 1-1) इति॥ विपरीता-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy