________________
आह्निकम् ३]
अन्यथाख्यातेः असत्ख्याति रूपत्वाभावः
473
ननु ! अत्र चोदितं (पु. 456) 'असत्ख्यातिरेव सा भवेत् ' इति नैतत् साधु । देशान्तरादौ रजतस्य विद्यमानत्वात् । 'असत्ख्यातिपक्षे हि एकान्तासतोऽर्थस्य प्रतिभानमङ्गीक्रियते । इह तु देशान्तरादौ विद्यमानस्येति महान् भेदः ॥
'नु ! तत्रासतोsर्थस्य किं देशान्तरचिन्तया ?
किं कुर्मः ? तादृशस्यैव वस्तुनः ख्यातिदर्शनात् ॥ ११६ ॥ यस्तु देशान्तरेऽप्यर्थी नास्ति कालान्तरेऽपि वा । न तस्य ग्रहणं दृष्टुं गगनेन्दीवरादिवत् ॥ ११७ ॥ अयमेव च द्वयोरसत्त्वयोर्विशेषः, यत् एकस्य ग्रहणं दृष्टं, इतरस्य न दृष्टमिति ॥
[ तत्रासतोऽपि भानसंभवोपपादनम् |
ननु ! उक्तं (पु. 459 ) तत्र असतोऽर्थस्य कथं ज्ञानजनकत्वम् ? अजनकस्य वा कथं प्रतिभासः ?
उक्तमत्र (पु. 457 ) सदृशपदार्थदर्शनोद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति । न चास्योपस्थापनं पशोरिव रज्वा संयम्य ढौकनम् अपि तु हृदये परिस्फुरतोऽर्थस्य बहिरवभासनम् । न चैतावतेयमात्मख्यातिः, असत्ख्यातिर्वेति वक्तव्यम् ; विज्ञानात् विच्छेदप्रतीते:, अत्यन्तासदर्थप्रतिभासाभावाच्चेति ॥
ر
[शुक्तिरजतभ्रमे शुक्तरालम्बनत्वेऽपि न क्षति: ]
' अथवा ' पिहितस्वाकारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतु द्वितीयः (पु. 457 ) पक्षः ॥
तत्रासत इति । तत्र यदि नास्ति, तर्हि देशान्तरस्थितिः कुत्रोपयुज्यते । तत्रासत्तु भासत एवेति पूर्वार्धस्य भावः । सर्वथाऽसतः कुत्राप्यभानात् देशान्तरावस्थितिरेव प्रकृतभानप्रयो जिवेति समाधानम् । तत्रासतः । ग्रहणं, अन्यत्रेति शेषः । न दृएं, कापीति शेषः ॥ ढौकनं - ढौगताविति धातुः । विच्छेदप्रतीते:--- ज्ञानं तु अन्तमुखतया भाति, विषयस्तु बहिष्ट्रेन ॥
एकस्य
असत्ख्यातिपक्षे हि ख.
2 तत्रैकान्ता - ख
3 अत एव ख.