________________
17
भ्रमस्वरूपरिशीलनम्
[न्यायमारी
संशयानश्च संवादं नूनमन्वेषते जनः। तदपेक्षाकृतं तस्मात् प्रामाण्यं परतो ध्रुवम् ॥ १११॥ [ शून्यवाद ने रासाय सर्वेषां ज्ञानानां यथार्थत्वं न वक्तव्यम् ] न चैष शून्यवादस्य प्रतीकारक्रियाक्रमः। अनर्थजा हि निर्दग्धपित्रादौ भवति स्मृतिः ॥ ११२ ॥ दृष्टान्तीकृत्य तामेव शून्य वादी समुत्थितः। भ्रमापह्नवमात्रेण प्रतिहन्तुं न शक्यते ॥ ११३ ॥
[एवं परतःप्रामाण्यखण्डनेन शून्यवादिनिरासो न भवति अथास्ति काचित्परतः प्रामाण्यस्य निषेधिका । शून्यवादस्य या युक्तिः सैव 'वाच्या किमेतया ? ॥ ११४ ।। तस्माद्यथार्थमस्याः संश्रयणं 'तन्न' निषिद्धमख्यातेः।।
संविद्विरोध एव प्रकटित इति धिक् प्रमादित्वम् ॥ ११५॥ तदुक्तम्
‘कृतश्च , 'शील विध्वंसः न चानङ्गश्च सङ्गतः। आत्मा च लाघवं नीतः तच्च कार्य न साधितम्' इति ॥
[अन्यथाख्यातेः असत्ख्यातावपर्यवसानम् ] ... यत्पुनर्विपरीत ख्याती पक्षत्रयमाशय दूषितम्. (पु. 456)तदपि न युक्तम्-अस्तु तावदयमेव आद्यः पक्षः 'रजतमालम्बनं, तदेव चास्यां प्रतीतो परिस्फुरति' इति ॥ . ... ननु पुरतः अविद्यमानस्यैव रजतादे नाङ्गीकारे, एवं अर्थमन्तरैव सर्वोऽपि प्रत्यय उत्पन्नो भवतीति वदन् शून्यवादी कथं निरसितुं शक्यः ? इत्यत्राह--न चेति। शुक्तिरजतभ्रममादायैव न शून्यवादः प्रसञ्जितः । किन्तु अर्थमन्तराऽपि स्मृतेर्दर्शनात् तदृष्टान्तेनैव । अधिकं परस्तात् (९ माहिके) अत: शून्यवादिनो भीत्या नाख्यातिरङ्गीकरणीया ॥ ____ अथेति । शून्यवादस्य निषेधिकेत्यनुकर्षः। यदि परतः प्रामाण्यनिषेधेन शून्यवादो निरस्यः, तदा सफल: प्रयासः। तत्तु न | अतः किमेतया चर्चया ॥ ___ वादे-ख. वान्या-क. 3 तत्-ख. शूल-ख. 5 परीता-क.