________________
माडिकम् ३ अन्यथाख्यातेरेवावर्जनीयत्वम्
471 एवमुच्यमाने च एकचन्द्रग्रहणेऽपि वृत्येकत्वाग्रहणादख्यातिरेव भवेत् ॥
तिक्तशर्कराप्रत्ययस्याप्यख्यातिरूपत्वासंभवः] यदपि---तिक्तशर्करादिप्रत्ययेश्वख्यातिसमर्थनकदाशया पितवृत्तस्तिक्तत्वस्य संवेद्यमानस्य तत्स्थत्वेनाग्रहणमुपवर्णितम् तदधि कुशकाशावलम्बनप्रायम् ॥
मोहात पित्तगतत्वेन तिक्तता चेन्न गृह्यते । मा ग्राहि, शर्करायां तु किंकृता तिक्ततामतिः? १०८ ॥
'सामानाधिकरण्येन हि 'तिक्ता शर्करा' इति तदधिकरणा तिक्तताप्रतीतिरुपजायते। पित्तं त्विन्द्रियस्थं तिमिरवदगृह्यमाणमपि भ्रममुपजनयति, . शरीरस्थमिव ज्वरं शिरोऽत्यादिरोगमित्यलं प्रसङ्गेन.॥
अख्यातिसाधनमात्रेण न स्वत:प्रामाण्यसिद्धि:) एवं सर्वत्र नाख्यातिनिर्वहन्तीव लक्ष्यते । न चैतयाऽपि परतःप्रामाण्यमुप हन्यते ॥ १०९। रजतेऽनुभवः किं स्यात् ? उत प्रमुषिता मतिः ? द्वैविध्यदर्शनादेवं भवेत्तत्रापि संशयः ॥ ११ ॥
ननु मत एवं द्वित्वं तद्तत्वेन न गृह्यत इति वदाम इति खेत, नई एतादृश्यख्यातिः प्रमायामपि सुलभेत्याह-एवमिति ॥
शर्करायां - शर्करागतत्वेनेति भावः। तदधिकरणातिरिक्ततापित्तमिन्नशर्करावृत्तिता। शरीरस्थं ज्वरं यथा शिरोवेदनामुपजनयति तथेत्यर्थः। पद्यपि ज्वरं सर्व न सर्वथाऽतीन्द्रियं, अथापि अस्ति साशमपि ज्वरं कचित् ॥
रजते----रजतत्रिषयिणी मतिरित्यन्वयः । सर्वस्यापि ज्ञानस्य वस्तुगत्या पथार्थत्वेऽपि, शुक्तिरजताद्यनुभवस्य सस्थरजतानुभवापेक्षया लक्षणयं वक्तव्यमेव । एवञ्चानुभववैविध्यदर्शनात, प्रमाभ्रमपदार्थत्वस्य याश वादशत्वेऽपि संशयः अनतिकमणीय एव अतः संवादाथपेक्षायाः मरवेल परतः प्रामाण्य दुष्परिहरम् ।
पित्त विन्द्रियस्थ-ख. भप-ब.