________________
470
भ्रमस्वरूपपरिशीलनम्
म्यायमचरी
[स्वेनाननुभूतस्यापि वस्तुनः सत्त्वं युक्तमेव] ननु ! अननुभूतं सत् कथं जानीये? सदिति चेत् शानं ; तद. नुभूतमिति-चम-मया तन्नानुभूतं, अन्येनानुभविष्यते । परानुभूतं च सदिति शक्यते वक्तुम् । परानुभूते तु स्मरणमघटमानमिति नावयोरत्र 'वस्तुनि' समानयोगक्षेमत्वम ॥
स्विमस्य विपरीतल्यातिरूपत्वं अनिवार्यम् । ___ अपि च भवन्मते स्वमस्मृतेः स्मृतित्वेनाग्रहणे, केन रूपेण ग्रहणमिति चिन्त्यम्। रूपान्तरेण ग्रहणे विपरीतख्यातिः। सर्वात्मना त्वग्रहणे स्वप्नसुपुप्त्योरविशेषप्रसङ्गः। अनुभवप्रत्ययश्च स्वप्ने संवेद्यने, न स्मरणानुल्लेखमात्रमिति दुरभिनिवेश एव स्मृति: प्रमोषसमर्थनं नामेति ॥
[द्विचन्द्रज्ञानादीनां अण्यातिरूपत्वासंभवः] द्विचन्द्रादिप्रत्ययेषु कथमख्यातिः ।
ननु ! उक्तं (पु. 464)-'तिमिरसीमन्तिता नयनवृत्तिः एकत्वेन गृहीतुं न शक्नोति शशाङ्क---इति । भोः श्रोत्रिय! तादृशी शो वृत्तिः एकत्वमिन्दोर्मा ग्रहीत् ; द्विन्यानुभवं तु भान्तं' व प्रच्छादयामः॥
ननु चक्षुर्वृत्तौ तद्वित्वं, तद्गतत्वेन तु यत्तस्याग्रहणं स एव भ्रम:-नैतदेवम्-नेत्रवृत्तेः सर्वत्र परोक्षत्वात् ।।
किमेकचन्द्रबोधेऽपि वृत्त्येकत्वं प्रतीयते ? इयं ह्यगृह्यमाणैव चक्षुत्तिः प्रकाशिका ॥ १०७ ॥
नन्विति । यद्यननुभूतं भाति, तर्हि कथं तस्य सत्त्वमवगतम् ? यदि च सत्वज्ञानं तदा, तनुभूतमेव तत्, माननुभूतमित्युभयथाऽपि दोष इत्यर्थः । स्मरणं, स्वस्येति शेषः। वस्तुनि-विषयदृष्टयेति यावत् ॥
अपि चेत्यादि । संविन्मात्रतया भानं तु पूर्वभेव (पु. 465) निरस्त्रम् ॥ तिमिरसीमन्तिता-तिमिरेण दोषेण प्रत्येकं कृतमर्यादा ॥
वस्तुनि-क. सपिरभित्रा-स्व. प्रान्तं-ख.