________________
आह्निकम् ३) अन्यथाख्याख्यातिसमर्थनम्
469 [बाधस्वरूपपर्यालोचनया शुक्तिरजतभ्रमे रजतभानोपपादनम् ]
अपि च, नेदं रजतमिति बाधकज्ञानं पूर्वानुभवविषयीकृतरजतनिषेधमधिगमय दुत्पद्यते । नेदं रजतमिति- यदहमद्राक्षं तद्रजतं न भवति' इति । प्रसक्तस्य चायं निषेधः। अननुभूतं त्वप्रसक्तमपि प्रतिषिध्यमानं, रजतमिव 'कनकमपि किमिति न प्रतिषिभ्यते ?
अख्यातवाद्युक्तस्य बाधज्ञानकृत्यस्य निरसनम्) यत्तु व्याख्यातम् (पु. 463)-प्रागनवगतस्मरणानुभवविवेकप्रतिपादकं बाधकज्ञानमिति--तत् व्याख्यानमात्रमेव, तथाऽननुभवात् । न ह्येवं बाधक'मुत्पद्यते 'यदविविक्तं तद्विविक्तं ' इति । अतो यत्किञ्चिदेतत्। तस्मान्न रजत'स्मरणं, रजते वा कदाचिदनुभवोऽभूदिति स्मरणमभिधीयमानं नात्यन्तमलौकिकम् ॥
[स्वमानुभवस्य अख्यातिरूपत्वासंभवः] स्वप्ने तु स्वशिरच्छेदादेः अत्यन्ताननुभूतस्य स्मृतिरिति कथ्यमानमेव पाकरम् । जन्मान्तरे निजमस्तकलवनमनुभूतमनेनेति चेत्, इदमपि 'सुभाषिततरम्-यत् जन्मान्तरानुभूतं स्मर्यते । तत्र च कुतस्त्य एष नियमः --यत् कदाचिदेव स्मर्यते, न सर्वदा सर्वमिति ॥
[स्वप्नोऽपि नासद्विषयक:] ननु ! भवताऽपि असत्ख्याति निरस्यता स्वप्नज्ञानेषु तादृक्षु किं वक्तम् ? यद्वक्तव्यं, 'तत् तत्रैव श्रोष्यसि (९ आह्निके) । असन्न प्रतिभातीत्युच्यते, न त्वननुभूतमिति ॥ _ 'नेदं रजतम्' इत्यस्यैव विवरणं, तद्पानुभवो वा-यदहमित्यादि । अपिः यद्यर्थकः। अथवा-प्रतिषिध्यमानं-प्रतिषिध्यते चेत् ॥
'प्रागनवगत' इत्यस्य विवेकेऽन्वयः। रजते इति विषयसप्तमी । मलौकिकं नेति न—लोकानुभवविरुद्धमेवेत्यर्थः ।।
1 कमपि-क. मुद्धाट्यते-ख. रजतमिति-क. स्व-ख. 'मसारम्-ख. 'तत्रैव-ख.... ......