________________
अमस्वरूपपरिशीलनम्
[ न्यायमरी
परामर्शवादिनो वरं सत्यवाचः । ते हि प्रतिभासं न निह्नुवते ॥
[ अन्यथाख्यातौ कारणोपपादनम् ]
यत्तु विपर्ययावगतेः कारणं विकल्पितम्, तत्रोक्तमेव प्रामा
468
णिकैः
6
कार्य चेदवगम्येत किं कारणपरीक्षया ?
कार्य नागस्येत किं कारणपरीक्षया ?' इति ॥ कार्याकस्मिकताऽनुपपत्तेश्च कल्प्यतां कारणम् ! तच्च क्लृप्तमेव दोपसहितमिन्द्रियम्- - यथा संस्कार सहकारि प्रत्यभिज्ञायामिति ॥
[दुष्टं इन्द्रियमेव भ्रमकारणम् ]
सुवते शालयेो दुष्टा न यद्यपि यवाङ्कुरम् ।
शालिकार्य त्वपूपादि जनयन्त्येव कल्मषम् ॥ १०६ ॥
तस्माद्दोष कलितादिन्द्रियात् पुरोऽवस्थितधर्मिगतत्रिकोणत्वादिविशेषावमर्श कौशलशून्यात् सामान्यधर्मसहचरित पदार्थान्तरगतविशेषस्मरणोपकृताद्भवति विपरीतप्रत्ययः । सम्यज्ज्ञानापेक्षया च तद्दुष्टमुच्यते । स्वकार्ये तु विपर्ययज्ञाने तत्कारणमेव न दुष्टम् । तस्मात् रजतमित्यनुभव एव, न प्रमुषितस्मृतिः ॥
वैशिष्टयावगाहि ज्ञानम् । वरं श्रेष्ठाः । अत्र हेतु: --- सत्यवाच इति । प्रतिभासं - रजतभानम् ॥
कार्यमित्यादि । अनुभवसिद्धे किं वृथा चर्चया ? तदनुगुणं समर्थकारणं कल्पतामिति भावः । आकस्मिकता - हेत्वनधीनता । संस्कारसहकारि, इन्द्रियमित्यनुकर्षः ॥
' न हि दुष्टानि ' इत्याद्युक्तं (पु. 455) समाधत्ते - सुवत इति । कल्मषं बीजानरूपं कार्यमित्यर्थः । बीजं ह्यङ्कुरजननाय कृप्तम् । त्रिकोणत्वादिधर्माः शुक्तिगताः । ननु काचादिदुष्टं चक्षुर्न स्वकार्यक्षमं दृष्टं तत् कथं दुष्टं इन्द्रियं भ्रमहेतुः ? इति शङ्कां - दोषवैचित्र्यात् परिहरति- सम्यगिति । तदेव कारणं इत्यन्वयः । एवं स्मृत्यपेक्षायामपि प्रत्यभिज्ञावत् भ्रमः प्रत्यक्षानुभव एवेति निगमयति - तस्मादिति ॥