________________
पातिकम् ३) अख्यामिनिरास:
467 किच चौर्यमपीद न कथञ्चन स्वार्थ पुष्णाति। यावद्धि 'दृश्यं गृहीतम्' इति न जातः प्रत्ययः, तावत् कथं दृश्यार्थिनस्तत्र प्रवृतिः। एवमिहापि यावत् 'रजतं गृहीतम्' इति न जाता प्रत्ययः, तावत् कुतस्तदथिनां प्रवृत्तिः? तस्मादस्ति रजतग्रहणम्। न तु तत्स्मरणप्रमोषमात्रम् ॥
रजतस्मरण च रजततया ग्रहणार्थमपेक्षितम् ] ननु ! रजतस्मरणं विपरीतख्यातिवादिभिरप्यङ्गीकृतमित्युक्तम्। सत्यम्-रजतगतविशेषस्मरणमभ्युपगतम् । यथा हि पुरोऽवस्थिते धर्मिण्यू'यत्वा दिसाधारणधर्मग्रहणात् स्थाणुपुरुषगतविशेषानहणादुभयविशेषस्मृतेः संशयो भवति, एवमिहापि तेजस्वितादिसामान्यधर्मग्रहणाद्विशेषाग्रहणात् रजतगतविशेषस्मृतेश्च तस्मिन् धर्मिणि रजतप्रत्ययो भवति विपर्ययात्मकः। संशये ह्यभयविशेष. स्मरणं कारणम् । इह त्वन्यतरविशेषस्मरणमिति विशेषः। अत एव घागृहीतरजतस्येदं शानं नोत्पद्यते, सदृशाग्रहणे वा निशीथादाविति ।
रजतस्मरणमात्रात् न शुक्तिरजतप्रतीतिः न त्वेतावता स्मरणमात्रमेवेदमितीयति स्थातव्यम्। स्मरणअन्यस्य विपर्ययप्रत्ययस्यापि संवेदनात् । अत एघ तत्पृष्टभावि
कारणकार्ययोविवेकमजानान: पृच्छति-नन्विति। सत्यमित्यादि । पुरत: शुक्तेरेव सत्वात् विशेषोपस्थापनाय रजतस्मृतिरपेक्ष्यते । नेयं स्मृतिरेव भ्रमपदवाच्यः, किन्तु भ्रमकारणम्। एवं रजतस्वोपस्थित्या पुरोवर्तिनमपि तारशं विश्वसिति पुरुषः । नात्र स्मृतिप्रमोषः, स्मृतेः कारणावस्थायां विरमात , 'इदं रजतं' इति ज्ञानस्य ततो भिन्नत्वात् । अगृहीतेति--पूर्वमपरिचितेत्यर्थः। निशीथादी तेजस्विताद्यग्रहणात् सदृशाग्रहणे तादृशः भ्रमः नोत्पद्यते ॥
एवं कारणभूता स्मृतिः, न कार्यभूतविपर्ययपदवाच्या इत्यनुपदोक्तमेवोपपादयति--न विति। तत्पृष्ठभाविपरामर्शः--- तादृशस्मृतिजन्यविशिष्ट
-
ता-क,