________________
466 अमस्वरूपपरिशीलनम
न्यायमचरी पपत्तः। न चेयमप्रतिपत्तिरेवेति वक्तुमुचितम ; मदमुर्छादिदशा विसहशस्वप्रकाशसंवेदनानुभवात । यथा इदमित्यंशे स्वप्रकाश संवेदनं, तथैव रजतमित्यत्रापि ॥
[इदमंशस्थ प्रत्यक्षत्वं रजांशस्य स्मृतित्वं च दुर्वचम् ] अपि च द्वयोश्चशियोः समाने संवेदने तत्रैकं प्रत्यक्षलब्धं, अपरं स्मरणफलमिनि 'कुतस्त्यो' विभागः? इदमित्यत्र च किमवा भामत इति निरूप्यताम्। यदि शुक्तिकाशकलं, सकलस्वगत. विशेषखचितमवभाति, तदा तद्दर्शने सति रजतस्मरणस्य कोऽवसरः? भवदपि वा सादृश्यकृतं स्मरणं न तदविवेकाय कल्पते, देवदत्तदर्शनानन्तरोद्गततत्सदृशपुरुषान्तरस्मरणवत ॥ . .
अथ धर्मिमात्र इदमितिप्रत्यये प्रतिभाति, न शक्तिशाल। . तद्वामिष्यते। तदेव चेदं सामान्यधर्मग्रहणवशविरुद्धसंस्कारोपनिबन्धनविरुद्ध विशेषस्मरणकारणकं इदं रजतमिति सामान्योपक्रमे विशेषपर्यवसानं ज्ञानम् । यदिदं तद्रजतमिति सामानाधिकरण्याधमर्शात् । रजतानुभवाभिमानेनैव च रजतार्थी तत्र प्रवर्तते ॥
भख्यातिवादः बौद्धमतमूलकः] ननु ! स्मरणानुभवयोर्विवकमप्रतिपद्यमानः प्रवर्तत इत्युक्तम्-.. श्रुतमिदम् , यदत्र भवद्भिः धर्मकीर्तिगृहादाहृतम्--‘दृदयविकल्पावर्थावेकीकृत्य प्रवर्तते' हति ॥ गृह्यत एवेति, तदुपरागमात्रात रजतांशेऽपि स्मृतित्वाग्रहणेऽपि दिवेलक्षण्यं सिद्धमित्यत्राह-यथेति ॥
सामान्यधर्मेत्यादि । सामान्यधर्मग्रहस्य वश:-- अधीनं ; तदुवुद्धः इत्यर्थः; यः विरुद्ध संस्कारः, तदुपनिबन्धनं यत् विरुद्धविशेषस्मरणं तत्कारणकं ज्ञानमित्यन्वयः। विरोधश्चात्र भसामानाधिकरण्यम् । रजतानुभवाभिमानेनैव, म तु शुक्तित्वाज्ञानमात्रात् ।।
'कुतस्ते-ख.