________________
आह्निकम् ३] अख्यातिनिरास: .
465 [अख्यातिनिराकरणम्
[शुक्तिरजतज्ञानं न ज्ञानद्वयरूपम् ] अत्र प्रतिविधीयते । यदुक्तं-इदं रजतमितिस्मरणानुभवस्वभावे विवेकेनागृह्यमाणे द्वे एते शाने इति-तदसांप्रतम्प्रत्यमिशावदेकत्वेनैव संवेद्यमानत्वात् । यदेवेदं पुरोऽवस्थितं भास्वररूपाद्यधिकरणं धर्मिसामान्यं, तदेव रजतमिति विशेषतः प्रतिपाद्यते; यदिदमग्रतः स्थितं, तद्रजतमिति सत्यरजतप्रतीतिवत्। अनुभूततया हि न रजतमत्र प्रकाशते, किन्त्वनुभूयमानतया । भनुभूतताग्रहणं च स्मरणमुच्यते, नानुभूयमानताग्रहणम् ॥
[भख्यातिरपि विपरीतख्यातौ पर्यवस्थति] स्वप्रकाशा च संवित्तिरिति भवतां दर्शनम्। तत्रैषा रजतसंवित्तिः केन रूपेण प्रकाशतामिति चिन्त्यम् । यदि स्मरणात्मना, कः प्रमोषार्थः? अथानुभवात्मना, तदियं विपरीतख्यातिरेव । स्मृतेरनुभवत्वेन, 'शुक्तेरिव रजतत्वेन प्रतिभासात् ॥
.. [अख्यातिः दुरुपपादा च] अथ संविन्मात्रतयैव प्रकाशते, तदपि न युक्तम् रजतविषयोल्लेखात् । स्मरणानुभवविशेषरहितायाश्च विषयसंवित्तेरनु
प्रत्यभिज्ञावदिति । प्रत्यभिज्ञाया भपि ग्रहणस्मरणात्मकत्वे क्षणिकवादावतारमसङ्ग इति तत्प्रकरणे (७ माह्निके) विशदीभविष्यति ।। .
नानुभूयमानताग्रहणम्। न च तत्र अनुभूतत्वाग्रहणमात्रं, तावतेव भनुभूयमानताग्रहणमिव भवतीति वक्तुं शक्यम् ; सत्यरजतप्रतीत्यपेक्षया वेलक्षण्याननुभवात्। तत्रापि वर्तमानतायामगृहीतायां प्रवृत्तिरेव न स्यात् । भवर्तमानत्वाग्रहणमात्रात्प्रवृत्युपपादने च, अन्तत: भ्रमप्रमाविभागोऽपि दुर्वच एवं स्यात् ॥
प्रकाशतां-इति तिङन्तम् । कः इत्यधिक्षेपे ॥ - ननु न केवलं संविन्मात्रतया प्रकाशते, अपि तु रजतसंवित्त्वेनेस्यत्राहस्मरणेति। 'निर्विशेषं न हि सामान्यम्'। ननु पुरोवर्तित्वांशे प्रत्यक्षत्वं
1प्रतिभासाद-ख.
NYAYAMANJARI
30