________________
464 भ्रमस्वरूपपरिशीलनम्
न्यायमचरी न सर्वत्र स्मृतेरेव प्रमोषोऽभ्युपगम्यते। किन्त्वख्यातिः, अतश्चासौ कथञ्चित्कस्य चित्कचित् ॥९८॥ भवति, अनुभवस्मृत्योविवेकाग्रहणं कचित् । कचित्तु स्मर्यमाणस्य तथात्वेनानुपग्रहः ॥ ९९ ॥ द्विधा कृता क्वचिद्वत्तिर्नेत्रस्य तिमिरादिना । न हि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥ १०० । .. क्वचिद्रसनसंपृक्ते पित्ते तिक्तत्ववेदनात्। . परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥ १०१ । गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवति तत् । तथा तु न विजानाति निगिरन्नेष शर्कराम ॥ १०२ ॥ एतेन पीतशङ्खादिख्यातयोऽपि व्याख्याताः ॥
[अख्यातिवादोपसंहारः तत्प्रयोजनकथनेन तदेवं सति सर्वत्र सम्यगग्रहण भ्रमः। .. न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥ १०३ ॥ अजातमिथ्याशङ्कश्च न संवादमपेक्षते । तस्मान्न कश्चित् परतः प्रामाण्यमधिगच्छति ॥ १०४ ॥ एवं स्वतः प्रमाणत्वे सिद्धे वेदेऽपि सा गतिः ।
अपवादद्वयाभावः वक्तव्यश्चात्र पूर्ववत् ॥ १०५॥ कचित-शुक्तिरजतभ्रमादौ । कचित्त-स्वप्मे तु । तथात्वेन-स्मर्यमाणत्वेन । नहीति। एकश्चन्द्र इति ज्ञानवतामपि अङ्गल्यवष्टंभादिना द्वौ चन्द्रौ' इति प्रनीतिदुरतिक्रमा। अत: द्विचन्द्रज्ञाने अन्ततः भिन्न देशत्वाभावामदए।। पित्तेपित्तदोषे। तथाचात्र तिक्तस्बे पित्तवृत्तित्वाग्रहः सर्वेषामपि पीतः शङ्खः'. इत्यत्रापि पीतिम पित्तगतं, तद्गतत्वेन न गृह्यते ॥
सम्यगिति। सम्यक्त्वं यथावस्थितत्वम् । एवमख्यातिवादाकीकारस्य मूलहेतुं प्रकटयति---न मिथ्येत्यादि । शङ्कानिबन्धन-इदं प्रमा? नवा? इतिशङ्कानिदानम्। अपवादद्वयं--पूर्व (पू. 431) प्रतिपादितम् ॥