________________
अख्यात्यैव सर्वविधभ्रमनिर्वाह:
[ अख्यातिपक्षे बाधकज्ञानकृत्यम् ]
ननु । एवमख्यातिपक्षे प्रतिष्ठाप्यमाने 'नेदं रजतम् इति पूर्वावगतरंजन' प्रतिषेध' बोधी वाधकप्रत्ययो दृश्यमानः कथं समर्थ'यिष्यते ? अप्रतीतिज्ञो देवानां प्रियः । न ह्यनेन रजतनिषेधो विधीयते किन्तु प्रागगृहीतो विषेकः प्रख्याप्यते । न इदं रजतः यदेवेदं तदेव रजतमित्येतन्नः इदमिदं रजतं इति ॥
आह्निकम् ३]
463
एतदुकं भवति - इदमन्यत्, रजतमन्यदिति सोऽयं विवेकः 'पितो' भवति ॥
[ स्वामानुभवस्यापि ग्रहणस्मरणात्मकत्वम् ]
;
मनु ! एवं, ' इदं रजतम्' इत्यादी स्मरणानुभवयोर्भवतु विवेकाग्रहणम् खमे तु कथमेतद्भविष्यति । भीगे ! किं जातं स्वप्ने ? विवेकेन न गृह्येते स्मरणानुभवौ कचित् । स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृहाते ॥ ९७ ॥ सहशदर्शनाद्विना स्मृतिरेव कुतस्त्येति चेत्-न- नानाकारणवात्स्मरणस्य निद्राकषायितमप्यन्तःकरणं स्मरणकारणं भवत्येव ॥
• चन्द्रमादीनामपि ख्यातिरूपत्वम् ]
यद्येवं द्विचन्द्रतिक्तशर्करादिप्रत्ययेषु कथं स्मृतिप्रमोषः ? आ. कुण्डशेखर ! कथमसकृदभिहितमपि न बुध्यसे
स्वत्विति । जाग्रदवस्थायां सत्यरजतमिथ्यारजतयोरनुभव: उक्तया युज्यते । स्वमस्तु सर्वोऽपि भ्रम एव । तत्र स्वप्रदर्शन किमधिष्ठानकम् ? किविषयकम् ? कथमख्यातिः ? इति प्रश्नार्थः । समाधत्ते - विवेकेनेति कचित्अप्रत्काले । स्मृतिरेकैवेति । स्वप्ने एकैव स्मृति: स्मृतित्वेन न गृह्यते । अदृष्टविशेषवशात् दर्शनसमानाकारतां चापद्यते। अतश्चाख्यातिरेव । स्वामानुभवस्य स्मृतिरूपत्वे स्मृतिहेतोः संस्कारस्योद्बोधकं किमिति पृच्छति --- सदृशेति । नानेति । अन्ततः अदृष्टादिकमेव उद्बोधकम् ॥
कुण्डशेखर - 'अमृते जारजः कुण्ड, जारजापशदेति यावत् ।
' प्रतिबोध-स्व
इष्यते-ख.
ख्यातिता-ख.