________________
462 भ्रमस्वरूपपरिशीलनम्
न्यायमझरी अिख्यातिपदार्थः ननु ! रजतमिति स्मृतेः स्वरूपोल्लेखो मा भूत् ! इदमित्यत्र पुरोऽवस्थितर्मिप्रीतभासात् कथमख्यातिः। उच्यते-न पुरोऽवस्थितधर्मो शुक्ति केयमिति स्पष्टतया गृह्यते, तथाचाभ्युपगमे भ्रमाभावप्रसङ्गात । किन्तु तेजस्वितादिविपरीतं धर्मिमात्रमवभासते। धर्मसारूप्याच तदानी रजतं स्मयते। ते एते ग्रहणस्मरणे विविक्ते अपि विविक्ततया न गृह्यते इति विवेकाग्रहणमख्यातिः; न तु'सर्वेण सर्वात्मना'ऽप्रति पत्तिरेव । व्यधिकरणयोश्च ग्रहणस्मरणयोवैयधिकरण्यं 'चेन्न' गृहीतं, किमन्यदस्तु सामानाधिकरण्यम्।। न तु यदेवेदं, तदेव रजतमिति सामानाधिकरण्येन ग्रहणमस्ति। सा हि विपरीतख्यातिरेव स्यात्-वैय्यधिकरण्यानुपग्रहादेव प्रमातुः प्रवृत्तिः। अविवेकात्साधारण्याभिमानेन प्रवृत्तिरिति फलत इयं वाचोयुक्तिः॥
सामानाधिकरण्येन केचित्तत्पृष्ठभाविनम् । परामर्शमपीच्छन्ति तन्न श्रद्दध्महे वयम् ॥ ९५ ॥ अख्यातिपक्ष एवं हि हीयेतैकत्ववेदनात् ।
पकैश्च वितथाख्यातिः अक्षरः कथिता भवेत् ॥ ९६ ॥ नन्विति। स्वरूपोल्लेखः-स्मृतित्वाग्रहणम् । विविक्ते' समुच्चयानात्मके। ध्यधिकरणयोः --मिन्नविषयकयोः। ननु तयोः विशेषणविशेष्ययोः न वैयधिकरण्याग्रहणमात्रं, सामानाधिकरण्यमपि गृह्यत एवेति चेत्तत्राह-न विति।
__ वैय्यधिकरण्येत्यादि । यद्यपि सामानाधिकरण्यमपि भासत इवैवानुभवः, परन्तु सः वैयधिकरण्याग्रहणकृत एव; भारापगमे 'सुरुषहम्' इत्यादौ दुःखापगममात्रात् सुस्त्रीतिवदिति भावः ॥
केचित् -- एकदेशिनः । तत्पृष्ठभाविनं. ....- स्मृतिप्रमोषानन्त. रभवं परामर्शः - विशिष्टवैशिष्टयावगाहिज्ञानम् । एकत्ववेदनात्-- शानद्वय इति शेषः । धनः अक्षरैः--पर्यायशब्दैः। वितथाख्यातिः-- भन्यथाख्यातिः
सर्वेण सर्वा-ख.
पचा एव-पा,
चेतिक
करण्याव-क. ख.