________________
आह्निकम् २]
अख्यातेर वर्जनीयत्वोपपादनम्
असत्यातावपि सत्वमर्थस्य नैव प्रतिभासते, प्रवृत्यादिव्यवहारोच्छेदप्रसङ्गात् ॥
विपरीतख्यातावपि रजतस्य सन्निहितस्य ज्ञानजनकरवम्, अजनकस्य च प्रतिभासो नेष्यत एव। अतः तंत्र रजतस्मृत्युपस्थापितं रजतमवगतिजनकमुपगतम् । अतश्च रजतस्मृतिरपरिहार्या । सा च रजतस्मृतिर्न तदा स्वेन रूपेण प्रकाशते, 'स्मरामि' इति प्रत्ययाभावात् ॥
तस्मात् प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः । अभ्यस्ते 'विषये' लिङ्ग' प्रतिबन्ध' स्मृतिं यथा ॥ ९३ ॥
सोऽयं स्मृतिप्रमोषः तत्त्वाग्रहणं अख्यातिरुच्यते ॥ एवं सतीयमख्यातिरिष्यते सर्ववादिमिः । तथा प्रकटयद्भिस्तु पीतं प्राभाकरैर्यशः ॥ ९४ ॥
ज्ञानजनकत्वं नेष्यत एव इत्यन्वयः । असन्निहितत्वमेव हेतुः । सनिहितत्वात ज्ञानजनकरवे असंभाविते सति, ज्ञानाजनकत्वात् रजतस्य प्रतिभासोऽपि न स्यात् । प्रतिभासते सु रजतं । अतस्तत्र रजतस्य सान्निध्य उपपादनीयम् । तञ्च तत्र स्मृस्यैवोपपादनीयमिति भावः । स्वेन रूपेणस्मृतित्वेन रूपेण ।।
एनां रजतभासनां । प्रमुषितां अगृहीतस्मृतिस्वधर्मिका स्मृति - स्मृतिरूप इच्छन्ति तार्किकाः वर्ककुशलाः । न तु नैय्यायिकाः । मयमेव स्मृतिप्रमोषवादः । तत्र दृष्टान्त: ----अभ्यस्त इति । असकृदभ्यस्ते भोजनादौ तृप्तिसाधनत्वं पुरत मोदनदर्शनमात्रेणैव पूर्वेयुरनु भूतेष्टसाधनत्वनिश्वयात् पुरोवर्तिन्यपि इष्टसाधनत्वं प्रत्यक्षेणैव गृहीतमिव भासते । अथापि सत्र इष्टसाधनत्वस्मृतिरेवास्ति । स्मृतित्वं तु असकृदभ्यासात् तिरोहितमभूत् । तादृशस्मृतिमिवेत्यर्थः । तत्त्वाग्रहणं स्मृतिस्वाग्रहणम् ॥
असरख्या तिपदं भख्यातिपदमपि
' विषये-ख.
461
यथा सर्वथाऽसदर्थख्यातिपरं व्याख्यातं, सर्वथा ख्यात्यभावपरमेवेति
'प्रतिबन्ध - ख.
मन्यान
तथ भाक्षिपति