________________
460
भ्रमस्वरूपपरिशीलनम
न्यायमधरी
[आत्मख्यात्युपपादनम् तस्माद्वरमात्मख्यातिरस्तु---
विज्ञानमेव खल्वेतत् गृह्णात्यात्मानमात्मना । बहिनिरूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥ ९० ॥ बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः । 'उद्वह'त्यर्थशून्यांपि लोकयात्रामिहेदशीम ॥ २१ ॥
[भारमख्यातिनिरासः] उच्यते-नात्मख्यातिरपि युक्तिमती। विज्ञानात्मनो हि प्रतिभासे 'अहं रजतम' इति प्रतीतिः स्यात्, न 'इदं रजतम्' इति । . किञ्च-..' यदन्तईयरूपं हि बहिर्वदवभासते' (प्र-स) इत्यभ्युप-: गमादियमपि विपरीतख्यातिरेव स्यात् । असत्ख्यातिरपि चेय भवत्येव, बहिर्बुद्धरसत्त्वात् । बुद्धिरस्त्येवेति चेत् , बहिष्ट ताई । चिन्त्य---'सत असता? इति । न तावत् सत्, बुद्धे बर्बाह्यत्वाभापात। असत्वे त्वसत्ख्यातिरित्युक्तम् ॥
तस्मात् ख्यातिप्रयेऽप्यस्मिन अन्योऽन्यानुप्रवेशिनि । युक्तथा विरुध्यमाने च श्रेयस्यख्यातिरेव सा ॥ १२ ॥
अख्यातिः सर्वैर्वादिमिरप्रत्याख्येया] ख्यातित्रयवादिभिरपि चेयमप्रत्याख्येया 'नूनमख्यातिः । आत्मख्यातो तावत् आत्मतया विज्ञानस्य ख्याति स्ति, विच्छेदप्रतिभासादित्युक्तत्वात् ॥ तस्मात-विपरीतख्यातेः, असरख्यातेश्च परस्परसांकर्यादिभिः दुर्निरूपत्वात्।
अहमिति। आत्मा हि अहंप्रस्ययगोचर इति सर्वेषामनुभवः । विज्ञानरूपस्य तस्येव रजतात्मना माने तत्र आरमन एवाधिष्ठानस्थात् 'अहं रजतं इस्येवानुभवः स्यात् । मनु प्रत्यक्तांशस्यापि संवृस्याऽऽवरणात 'इदं ' इति पराक्केन भानमित्यत्राह-किञ्चति । बहिष्ट्वं--पराक्तम् ॥
आत्मतया---प्रत्यक्तया। विच्छेदः - विस्छित्तिविशेषः : हदं' इति पराक्तमिति यावत् ॥
तह-ख.
सदसत्वादिति-ख