SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ माह्निकम् ३ असत्ख्यातिनिरास: 459 किमेकान्तासन एवार्थस्य प्रथनम् ? अथ देशान्तरादौ विद्यमानस्येति? उत्तास्मिन् पक्ष विपरीतख्यातिरेवैषा, परैरपि तत्र रजतस्य 'सत्वानभ्युपगमात्। देशान्तरादौ तु तत्सत्तायास्त्वयाऽपि प्रतिपन्नत्वात्। एकान्तासतस्त्वस्य ख्यातिरिति न पेशलम: आकाशनलिनीपल्लवादेरप्रतिभासनात्। वासनाभ्यासादसतामपि प्रतिभासा भविष्यन्तीति चेत्, न, अर्थमन्तरेण वासनाया अप्यनुपपत्तेः । अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते। सा कथमसदर्थप्रतिभासहेतुः स्यात् ।। भवत्वन्या वा भवद भिमता काचन वासना, साऽपि स्वसस्वा विशेष किमिति रजत'मति'मुपजनयति, नगगननलिनप्रतीति. मिति कुतस्त्यो नियमः? तदलमनया ! नात्यन्तमसतोऽर्थस्य सामर्थ्यमवकल्पते । व्यवहारधुरं वोदुमियतीमनुपप्लुताम् ॥ ८२ ॥ ___ अपि च सत्त्वेन प्रतिभातीति असख्यातिरपि न विपरीतख्यातिमतिवर्तते ॥ एकान्तासतः---शशशृङ्गादितुल्यस्य । ननु देशकालान्तरवर्तित्वेऽपिपुरतोऽभावात् असरख्यातिरेवैषा, न तु विपरीतख्यातिरिति शङ्कायामाहपरैरिति । निरुपाविकतया असत: ख्यातिरिति वक्तुमक्यत्वात् , न सर्वथाs. सरख्याति: संभवति । ननु तईि शशशृङ्गादिप्रतीतेर्वा असरख्यातित्वमङ्गीकरणीयमिति चेत्-तादृशस्यानुभवस्य कस्याप्यदर्शनात् । यत्र कचन दृष्टस्याम्यत्र कुत्रचिदानस्यैव सर्वानुभवसिद्धत्वात् ॥ असतां-सर्वथाऽसता केशोण्डकादीनाम् । तथोक्तं भवेद्यवेदका. कारा यथा भ्रान्तैर्निरीक्ष्यते। तथा कृतव्यवस्थेय केशादिज्ञानभेदवत् ' (प्र.वा 3.331) इति। - अनुपलता-असंकीर्णा इयती व्यवहारधुरं वोर्नु अत्यन्तासतोऽर्थस्य सामध्ये नावकल्पते ॥ वस्तुतस्त्वियमसरख्यातिः विपरीतख्यातिरेयेस्याह --- अपि चेति । सवेन, पुरत इति शेषः ॥ _ 'सस्वाभ्यु-क. वासनाऽपि-ख सत्ता-क. मिति- क.ख. असत्वेन-क. अळ्याति-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy