________________
458
प्रमस्वरूपपरिशीलनम्
न्यायमजरी प्रमाणम् ? बाधकप्रत्ययादेवमवगतं इति चेत्, मेवम्-न हि शानान्तरेणास्याः प्रतीतेविषयो व्यवस्थापयितुं युक्तः। बाधकेन हि ज्ञानेन पूर्वज्ञानगृहीतस्य वस्तुनोऽलत्त्वं नाम ख्याप्यताम् , न तु तस्य विषयो निरूप्यते। अनर्थित्वाद्वा, कदाचिदप्रवृत्तस्य पुंसो बाधकानुस्पत्ती वा कोऽस्याः प्रतीतेविषयं व्यवस्थापयिष्यति। तस्माद्यदेवास्यां चकास्ति, सदेव रजतमस्या विषय इति युक्तं वक्तुम् । शुक्तिस्तु निगृहितनिजवपुरिति दुर्विदग्धपाचोयुक्तिरियम् ॥ ..
[शुक्तिः विषयः, रजतस्य प्रतीतिरिति तु उपहास्यम् ये त्वालम्बनतां शुक्तेः रजतस्यावभासनम् । वदन्त्यस्मिन भ्रमशाने तेषामतितरां भ्रमः ॥ ८५ ॥ म ह्यालम्बनता युक्ता सन्निधाननिबन्धना । सत्रैव भूप्रदेशस्य तथाभावप्रसङ्गतः ॥ ८ ॥ नदेवालम्बनं बुद्धर्यदस्यामवभासते। . अन्यदालम्बनं चान्यद्भातीति भणितिने वा? ॥ ८७ ॥ अतो रजतमेवैतद्वद्धिग्राह्यमसच तत् । एवं विपर्ययख्यातिरसत्ख्यातन भिद्यते ॥ ८८ ॥
[असरख्यातिनिरासः सत्किमसख्यातिरेव साधीयसी? तामेवाभ्युपगच्छामःमैवम--साऽपि नोपपद्यत एव । असत्ख्यातिरिति कोऽर्थः ?
प्रकम्प्यम् । ततश्च तस्य शुक्तिविषयत्वं कथम् ? शुक्तया सहैव हि इन्द्रियं संयुक्त इति चेत्, न हि तदा शुक्तेर्भानन्। बाधानन्तरं सत् ज्ञायेतेति चेत्---यः प्रतीयते स एव तत्र विषयः इत्येव लोको मन्यते । न तु भत्र प्रमाणान्तरापेक्षा। बाधादर्शनस्थले तु शुक्तरेव विषयस्वे प्रमाण दुर्वचमेव सरां। अतो रजत. विषयकस्वे सिद्धे नत्रासतः रजतस्य भानात् मसरख्यातावेव विश्रान्तिः । भनार्थत्वात---ज्ञानस्यं स्वविषयनिर्णये ज्ञानाम्तरानपेक्षणात् । अप्रवृत्तस्य---- उदासीनस्य ॥
तथाभावप्रसङ्गत:----आलम्बनवप्रसङ्गतः । तदेवेति। गत भासते तदेवालम्बनं युक्त। न सुमन्यदासम्बन, अन्यस्य प्रतिमास इति ॥