________________
‘श्राद्विकम् ३] परीतस्यातिनिरास:
457 अपि च-देशकालावपि कि सन्तो प्रतिभासेते? उतासन्तो? इति । यदि सन्तो, तर्हि 'तद्देश'कालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात् । असन्तौ तूभावपि रजतवत् नालम्बनं भवितुमईतः॥
स्मृत्याख्यसन्निकर्षेणैव रजतभानं तु म संभवति अथ स्मृत्यारूढं रजतमस्यां प्रतीतौ परिस्फुरतीत्युच्यते, सहि स्मृत्युपारूढमिति कोऽर्थः? स्मरणममि ज्ञानमेव, तदपि कथ. मसदर्थविषयं स्यात्। स्मृतेरनर्थजस्वमेव स्वरूपमिति चेत ; अस्तु कामम् ! तत्सामान्यादत्राप्येवं प्रयोग इत्येतदपि तावन्न धूमः। तथा त्वनर्थजन्यया स्मृत्या सोऽर्थः कथमिह सन्निधापयितुं पार्यते। सा हि न स्पृशत्येवाऽर्थम् । तस्मादसन्निहितरजतालम्बना विपरीतख्यातिरसत्ख्यातेने विशिष्यत एव ॥
[शुक्तिरजतज्ञानं न शुक्तिविषयकम् । अथ स्थगितनिजवपुरुषगृहीतरजतरूपा शुक्तिकाऽत्र प्रकाशत इति नेयमसख्यातिरुच्यते: तदिदमपूर्व किमपि नाटकं, इयमस्मिन कृत्या सीता प्रवृत्तेति । तथा हि-किमत्र'शुक्तिरिति प्रतीतिः? उत रजत मिति? शुक्तिकाप्रतीतो तु'शुक्तौ शुक्तिरेव प्रतीयते', न 'रजतं इति भ्रमार्थः कः? रजतप्रतीतौ तु शुक्तिरसावित्यत्र किं
. एतरसमस्यापरिहाराय दार्शनिकाः यथायथं प्रयतन्ते----पुरोवर्ति शुक्तिसंयुक्तं चक्षुः रजतस्मरणसहकृतं सत् 'इदं रजतं' इति विशिष्टवैशिष्ट्यावगाहिज्ञानं जनयतीति विपरीतख्यातिवादिनः नैय्यायिकाः, भाट्टाश्च । 'विपरीतमेव मया गृहीतम्' इति बाधानन्तरं अनुसन्धानात तथा व्यवहारः ॥ ... तथात्विति। स्वयं मधसंस्पर्शशून्या कथं तदा अर्थमुपस्थापयेदित्यर्थः ॥
कृत्या सीता-माया सीतेति यावत्। श्रीमद्रामायणे युद्धकाण्डे इन्द्रजिता मायासीताप्रदर्शनं कृतं, तद्वदत्र किमिदं कापव्यमित्यर्थः । असौविषयः । किंप्रमाणमिति । यदा रजतं प्रतीयते, तदा रजतविषयकं ज्ञानमित्य
. 'उद्देश-क. 'शुक्तीति-व. 'शक्तिरेव-क. ख. ' रजतभ्रमार्थ:-क,
रजतमत्र-ख.
.