________________
456 भ्रमस्वरूपपरिशीलनम्
न्यायमञ्जरी [धर्मस्मरणस्य स्मृतित्वेन ख्याति स्ति] स्मरणमपि भवदिदमात्मानं तथा न प्रकटयतीति प्रमुषितमुच्यते । स्वरूपेण चाप्रतिभासमानायां स्मृतावनुभवस्मरणयोविवेको न गृहीतो भवतीत्यग्रहणमख्यातिरुच्यते ॥
[भ्रमस्थले वादिविप्रतिपत्तयः सथा हि भ्रान्तबोधेषु प्रस्फुरद्वस्तुसंभवात् ।
चतुष्प्रकारा विमति'रुदपद्यत वादिनाम् ॥ ३॥ - विपरीतख्यातिः, असत्ख्यातिः, आत्मख्यातिः, अख्यातिरिति ।
[भन्यथाख्यातेः असरख्यातावेव पर्यवसानोपपादनोपक्रमः]
तत्र विपरीतख्यातिस्तावत्कारणाभावादेव निरस्ता। अपि वं विपरीतख्यातो त्रयी गति:-रजतं वाऽन्यदेशकालमत्रालम्बनम्? शुक्तिका वा निगृहितनिजाकारा सती परिगृहीतरजताकारा छ ? अथवा अन्यदालम्बनं अन्यच्च प्रतिभाति?
[शुक्तिरजतज्ञानं न रजतविषयकम्] .. तत्र यदि रजतमालम्बनं, तदियमसत्ख्यातिरेव ; न विपरीतख्यातिः, असतस्तत्र रजतस्य प्रतिभासात् ॥ .
अथान्यदेशकालं तत् अस्त्यवेत्यभिधीयते। , इहासन्निहितस्यास्य तेन सत्त्वेन को गुणः?॥ ८४॥
स्मरणमिति । भवदपि इत्यन्वयः । विपरीतण्यातिपक्षेऽपि हि स्मरणमेव रजतोपस्थापकं इष्टं ; न हि एतत् अनुभवसिद्धम् । यदि च स्मरणं विषयमात्रं समर्पयति, न स्वात्मानमपि स्मरणत्वेन प्रकाशयति-इत्युच्यते; तर्हि अस्मन्मतमेव तत् । कुतस्तर्हि एतत्सोपानमतीत्य विपरीतख्यातिकल्पनम् ?
तथाहीत्यादि। भ्रान्तिस्थले इयमत्र समस्या-इन्द्रियान्वयव्यतिरेकानुविधानात्. साक्षात्करोमीत्यनुव्यवसायदर्शनाञ्च शुक्तिरजतज्ञानस्य प्रत्यक्षत्वं वक्तव्यम् । इन्द्रियशुक्तिसन्निकर्षस्तु वर्तते. ज्ञानं तु रजतविषयकं जायते ! कथमिदम् ? भन्येन सन्निकर्षः, अन्यस्य ज्ञानम् ?
1 रुपपद्येत-ख.