________________
'भाढिकम् । अस्यातिवाद:
455 न सावदिन्द्रियमेवंविधबोधविधायि भवितुमईति, सर्वदा तदुत्पादप्रसङ्गात् ।।
नापि दोषकलुषित, दुष्टं हि कारणं स्वकार्यकरण एव कुण्ठितशक्ति जात मिति तदेव मा जीजनत् , विपरीतकार्यकरणस्य किं वर्तते? न हि दुष्टानि शालिबीजानि यवाकुरकरणकोशलमवलम्बेरन् । तस्मात् कारणामावादपि न विपरीतप्रत्ययास्ते ॥
- [भ्रमस्थले ज्ञानद्वयमेव, नैकं ज्ञानम् तरिक सम्यक्प्रत्यय एव शुक्तिकायर्या रजतप्रतिभासः?--अयि मूढ ! नायमेकः प्रत्ययः--इदं रजतमिति ; किन्तु द्वे पते ग्रहण स्मरणे। इदमिति पुरोऽवस्थितभास्वराकारधर्मिप्रतिभासः, रजत. मिति तु भास्वररूपदर्शनप्रबोध्यमानसंस्कारकारणकं तत्साहवर्यादवगतरजतस्मरणम् ॥
.. [भ्रमस्थले धर्मज्ञानस्य स्मृतिरूपत्वे युक्तिः
अतश्चेदं स्मरणं-यतः प्रागनवगतरजतस्य न जायते, विदित. रजतस्यापि रजन्यामन्यदा वा सादृश्यदर्शना'द्विना न भवतीति ।
न तावदित्यादि। विपरीतप्रत्ययोत्पादनमेवेन्द्रियस्य स्वभावश्चेत्, कदाऽपि सत्यप्रमितिर्न स्यात् ॥
दोषकलुषितं, इन्द्रियमिति वर्तते। दुष्टानि- स्वाङ्करजनन एवासमर्यानि ॥
ढे इति । इन्द्रियसंयोगस्तु शुक्त्या सह । ज्ञानं तु रजतविषयकम् । कथमिदं प्रत्यक्षरूप एकं ज्ञानं स्यात् ! अतः विदोष्यांशे इन्द्रियमेव कारण, विशेषणांशस्तु स्मृत्यैवोपस्थापनीय इति बलात वक्तव्यम् । ततस प्रत्यक्षस्मरणरूपं ज्ञानद्वयमेव 'इदं रजतम् इति ।
मनु सत्य रजतं दृष्ट्वा यादृशः प्रत्ययः तदुत्पत्तिकाले अनुभूयते, तदविशेषमेव शुक्किं दृष्ट्वा जातोऽपि भनुभूयत इति कथं रजतस्मरणमुज्यते? इत्यत्राह