________________
454
भ्रमस्वरूपपरिशीलनम
न्यायमचरी [प्रकारान्तरेणापि बाध्यज्ञानासंभवोपपादनम् ] इतश्च नास्ति। स हि समान विषययोर्वा ज्ञानयोरिष्यते ? भिन्न विषययोर्वा ? न समानविषययोः, धारावाहिज्ञानेश्वदृपत्वात । नापि भिन्नविषययोः, स्तम्भकुम्भोपलम्भयोस्तदनुपलम्भात्। यदि चोत्तरेण ज्ञानेन पूर्व'ज्ञान'गृहीतादर्थादर्थोऽन्य इदानीं गृहीतः, तत्पूर्वज्ञानं किमिति बाधितमुच्यते? ___अपि च पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सति आगन्तुरुत्तरः प्रत्ययः बाधितुं युक्तः, न पूर्वः। न चैव दृश्यते। तस्मान्न याध्यं नाम विज्ञानमस्ति । तदभावान्न तत्साधर्म्य निबन्धनः संशयः। तदभाषासंवादाद्यनन्वेषणान्न परतः प्रामाण्यम् ।
[भख्यात्यवतार: ननु ! एवं बाधे निराक्रियमाणे किममी शुक्तिकारजतादिग्राहिणो विपरीतप्रत्यया अबाधिता एवासताम् ?-- आः कुमते ! नामी विपरीतप्रत्ययाः। न हीदृशानां विपर्ययाणामुत्पत्तौ किमपि कारणमुत्पश्यामः॥
पूर्व (पु 174) — तस्य प्रमाणभावे तु फलं हानादिबुद्धयः' इत्युनम् , अथापि हानादिप्रवृत्तिः पुरुषेच्छामन्तरा न भवत्येव । यदि च पुरुषः उदासीनः, तदा हानस्य वा, उपादानस्य असंभवेन तदधीन: बाधोऽपि दुरुपपादः । सः-बाध्य बाधकभावः । तदनुपलंभात्-बाध्यबाधकभावादर्शनात् ॥
प्राप्तप्रतिष्ठ इति । पूर्व हि ज्ञानं तदुत्पत्तिकाले कस्यापि बाधकस्याभावात उत्पसमेव । द्वितीयं तु ज्ञानं सजातविरोधित्वात् उत्पत्तमेव नालम् । न चोत्तरत्वमेव बाधकरवप्रयोजकम् , तदा उत्तरस्वाविशेषात् सर्व सर्वत्र बाधक भवेदिति न किमपि प्रतिष्ठितं भवेत्। उत्तरज्ञानस्य प्रमात्वं न सार्वत्रिकम् । भतः पूर्वज्ञानमेवोत्तरं. प्रति बाधकं भवेत् । तत्साधर्म्यनिबन्धनः-बाध्यज्ञानेम सह यत् साधय बोधस्वादि, तस्कृतः॥
शानेन-ख.
बाधेऽपि-ख.