________________
452
गुरुमतोक्तस्वतःप्रमाण्यपरीक्षा
न्यायमधरी
ये हि किलाभ्युपयन्ति च विपरीतख्यातिवाद अकृतास्त्राः, प्रामाण्यं व स्वत इति च वदन्ति, तेषां कुतः कौशलम् विपरीतख्यातावभ्युपगम्यमानायां बाध्यबोधसन्दर्भसुभिक्षे सति तत्वाधादनुत्पन्नबाधकेऽपि बोधे दुष्परिहरः संशयः। संशये च 'संवादाद्यन्वेषणमपि ध्रुवमवतरतीति परतः प्रामाण्यमनिवार्यम् ।
[बाध्यस्य ज्ञानस्यैवानङ्गीकारे तु प्रामाण्यं स्वत एव स्यात ] ___यदातुन बाध्यो नाम जगति कश्चिदपि बोधः, तदा किंसाधयात् संशेरतां प्रमातार: ? असंशयानाश्च किमिति परमपेक्षन्ताम् ! अनपेक्षमाणाः कथं परतः प्रामाण्यं प्रतिपद्यन्तामिति निश्चलं स्वत पर. प्रामाण्यमवतिष्ठते॥
कथं पुनर्बाध्यो नाम नास्ति बोधः? शुकिकादौ रजतादिप्रत्ययाः प्राचुर्येण बाध्यमाना दृश्यन्ते--अनमिनो भवान बाधस्य- नदि में बाध्याः प्रत्ययाः॥
[बाधपदार्थः] इदं हि निरूपप्यताम् क इवोत्तरशानेन पूर्वज्ञानस्य याचा? बाधार्थमेव न विद्मः। यदि तावन्नाश एव बाधः, स न तेषामेव । बुद्धर्बुद्धयन्तराद्विरोध इति सकलबोधसाधारणत्वात ।।
सर्वमेवेह विज्ञानं ' (प्र.प.नय--) इति वदन्ति । अतस्तम्मते बोधय प्रमाप्रमासाधारणं वक्तुमशक्यमिति तज्ज्ञानात् संशयो दुरुपपादः। अन्यथाख्यानि पादिनः भट्टस्य मते तु बाधस्य बाध्याबाध्यज्ञानसाधारणत्वात् संशयः अनिवार्य इति, तत्परिहाराय परत एव मामाण्यं बलादङ्गीकर्तव्यम् । अकृतास्त्राः --अशिक्षिततर्काः, तर्काकुशला इति यावत् ।। .
भहमतात स्व(गुरु)मतवैलक्षण्यमाह-यदा विति। किंसाधातकी शसाधारणधर्मज्ञानात् । परं--प्रामाण्यनिश्चायकप्रमाणान्तरम् ।
स्वरया गच्छतः क्वचिद्रथ्यादृष्टशुक्तिरजतज्ञानस्य बाधाऽप्रसस्तया प्राचुर्यणेति । बाघस्य अनभिज्ञ:---बाधपदार्थानमिज्ञः ॥
तेषां---शुक्तिरजतज्ञानानाम् । बुद्धरिति। योग्यविभुविशेषगुणा हि स्वोत्तरोत्पन्नताहशगुमनाश्याः !!
संवादा-क.