________________
आह्निकम् । परतःप्रामाण्यसाधनोपसंहारः
451 स्वतश्च प्रामाण्यं मन्यत इति स्वयमेवात्मानं 'वश्चयमानं न चेतयते। अभ्यासो हि नाम पुनःपुनः प्रयोगः क्रियाया अभ्यावृत्तिः, विषयस्य चाभ्यस्तता भूयोभूयः प्रवृत्तिः। अतश्च स्वशरीरग्रहे, निजगृहकुड्यस्तम्भादिप्रतिभासे वा सहस्रकृत्वः 'प्रवृत्त'संवादशानजन्मना प्रामाण्य निश्चय उक्तो भवति । स्वतः अभ्यस्तत्वं चान्यथा न भवेदिति यत्किञ्चिदेतत् । तस्मात् परतः प्रामाण्यमिति सिद्धम्॥
[प्रामाण्यविचारस्यानुपयुक्तस्वनिरासः यत्पुनः कैश्चिचोद्यते-प्रमाणानां न परीक्षणमुपपद्यते। तद्धि प्रमाणैः क्रियेत? अप्रमाणैर्वा ? प्रमाणैरपि परीक्षितैः ? अपरीक्षितैर्वा ?
नत्रन नाम 'अप्रमाणः प्रमाण परीक्षणं शक्यक्रियम् ॥
प्रमाणैरप्यपरीक्षितैः तत्करणे, वरं व्यवहार एव तादृशैः क्रियताम् ! कि परीक्षणेन ? |
परीक्षितैस्तु तत्परीक्षाकरणमपर्यवसितम्। अनवस्थाप्रसङ्गात् इत्यादि ॥ . तदप्युक्तेन न्यायेन परिहृतं भवति । दृष्टे विषये प्रमाणपरीक्षा विनैव व्यवहारात् । अदृष्टे तु परीक्षाया अवश्यकर्तव्यत्वादुप. पत्तेश्चति ॥
तस्माददृष्टपुरुषार्थपदोपदेशि . मान मनीषिभिरवश्यपरीक्षणीयम् । प्रामाण्यमस्य परतो निरणायि चेति घेतःप्रमाथिभिरलं कुविकल्पजालैः ।। ८१ ॥
अख्यातिसाधनोपक्रमः] सुशिक्षितास्त्वाचक्षते-युक्तं, यदमी मीमांसकपाशाः काशकुसुमराशय इव शरदि मरुद्भिरतिदुरात्समुत्सायन्ते दुष्टतार्किकैः ।
सुशिक्षिताः-गुरवः। अमी मीमांसका:-भाट्टाः। के ते मीमांसकाः ? इत्यत्राह-ये हीति। भख्यातिवादिनो हि गुरवः 'यथार्थ
'वाच्यमानं-ख. 'नासहस-क. 'प्रवृत्ति-ख. 'प्रमाणः प्रमाण-क. · प्रमाण-ख.
29*